बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 637, कुल 728 में से
संदर्भ में पढ़ेंअथाङ्गविद्याध्यायः
अतः परं केचिदङ्गविद्यां पठन्ति। आचार्येण प्रागेवोक्तं वास्तुविद्याङ्गविद्येति। तस्माद-
स्माभिर्व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
दैवज्ञेन शुभाशुभं दिगुदितस्थानाहतानीक्षता
वाच्यं प्रष्ट्रनिजापराङ्गघटनां चालोक्य कालं धिया।
सर्वज्ञो हि चराचरात्मकतयाऽसौ सर्वदर्शी विभु-
श्चेष्टाव्याहृतिभिः शुभाशुभफलं सन्दर्शयत्यर्थिनाम् ॥१॥
प्रश्नकर्त्ता की दिशा, उसकी वाणी, उसका स्थान और उससे लाई हुई वस्तु को
देखते हुये, प्रश्नकर्ता के अपने और वहाँ पर स्थित दूसरे के अंग की घटना देखकर
तथा समय को अपनी बुद्धि से विचार कर दैवज्ञ को शुभाशुभ फल कहना चाहिये;
क्योंकि वह काल चराचर सब प्राणियों का आत्मस्वरूप होने के कारण विभु और
सबको देखने वाला होता है। वही चेष्टा और वचनों के द्वारा प्रश्नकर्ता को शुभाशुभ
फल दिखाता है॥१॥
दैवज्ञेन सांवत्सरिकेण इमानि च वस्तूनि ईक्षता विचारयता प्रष्टुः शुभाशुभफलं
वाच्यं वक्तव्यम्। कानीत्याह—दिगाशा पूर्वांदिका। उदितं व्याहृतमुक्तं प्रच्छकेन। स्थानं
प्रदेशो यत्र स्थितः। आहतं तत्कालं केनचिद्यत्किञ्चिदानीतम्। एतानीक्षता। तथा प्रष्ट्रनिजा-
पराङ्गघटनां चालोक्य, प्रष्टुः प्रच्छकस्य निजाङ्गानामात्मीयावयवानाम्पराङ्गानामन्यावयवानां
च घटनां स्थितिं स्पर्शनादिकां कालं च तत्काले दिनगतशेषं च धिया बुद्ध्या आलोक्य
वीक्ष्य वाच्यम्। सर्वज्ञो हीति। यतोऽसौ कालश्चराचरात्मकतया चराणां जन्तूनाम्। अचराणां
स्थावराणां स एवात्मा जीवभूतस्तेन चराचरात्मकत्वेन स एव विभुः प्रभुः। सर्वदर्शी
सर्वमशेषं पश्यति तच्छीलः। हि यस्मार्दर्थे। चेष्टाव्याहृतिभिः, चेष्टाः स्पर्शनादिकाः क्रियाः।
व्याहृतिर्व्याहरणं सम्भाषणम्। एताभिः शुभाशुभफलं सदसत्फलमर्थिनां पृच्छतां सन्दर्शयति
प्रकटयति। तथा च पराशरः—
'इह खलु चराचराणां भूतानां कालोऽन्तरात्मा सर्वदा सर्वदर्शी शुभाशुभैर्यैः फलसूचकः
स विशेषेण प्राणिनां स्वपराङ्गेषु स्पर्शव्याहारेङ्गितचेष्टादिभिर्निमित्तैः फलमभिदर्शयति।
तत्प्रयतो दैवज्ञोऽनुपहतमतिरवधार्य स्वशास्त्रार्थमनुस्मृत्य यशोधर्मानुग्रहार्थमर्थिनां शुभा-
शुभानामर्थानां भावाभावमभिनिर्दिशेत्' इति।
तत्र देशे दिशः कालं व्याहारं द्रव्यदर्शनम्।
अङ्गप्रत्यङ्गसंस्पर्शं समीक्ष्य फलमादिशेत्।। इति।।१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA