बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 634, कुल 728 में से
संदर्भ में पढ़ें५९२ बृहत्संहिता
तीस अंगुल के बाद विशेष फल नहीं होता, किन्तु सामान्य रूप से विषम अंगुल
में व्रण हो तो अशुभ और सम में शुभ फल कहना चाहिये। कोई-कोई ( पराशर आदि
आचार्य ) तीस अंगुल के बाद अग्रभाग तक फलरहित बताते हैं।।२०।।
अतोऽस्मात् त्रिंशतः परतो न विशेषफलं भवति, सामान्याद्विषमसमस्थाश्च पापशुभ-
फलदाः। ये विषमाङ्गुलस्था व्रणास्ते पापफलदा अनिष्टफलदाः, ये च समाङ्गुलस्थास्ते
शुभफलदाः। तथा च गर्गः—
अङ्गुलानि च पञ्चाशत्प्रधानः खड्ग उच्यते।
तदर्धको निकृष्टः स्यात्तन्मध्ये मध्यमः स्मृतः।।
विषमाङ्गुलसंस्थो यो व्रणः सोऽनिष्टदः स्मृतः।
शुभः समाङ्गुलस्थस्तु मध्यगो मध्यमः स्मृतः।।
त्रिंशद्यावद्विनिर्दिष्टमङ्गुलानां फलं ततः।
षोडशाङ्गुलगो ज्ञेयो व्रणो मध्यफलप्रदः।। इति।
कैश्चिदफला इति कैश्चिन्मुनिभिः पराशरादिभिस्त्रिंशत्परतोऽग्रं यावदफला निष्फला
प्रदिष्टा उक्ताः। तथा च पराशरः—
‘तेषां प्रमाणानि। जघन्यमङ्गुलानि पञ्चविंशतिः। मध्यमं त्रिंशत्। उत्तमं चत्वारिंशत्।
अतो हीनमतिरिक्तं वा न धारयेत्। पूर्णात् प्रत्यङ्गुलान्तरितेषु व्रणेष्वनाकृतिषु यावत्त्रिंश-
दङ्गुलं तावत्क्रमात् फलनियमः। पुत्रनाशोऽर्थगमोऽर्थनाशोऽर्थसञ्चयो गृहदाहो मित्रलाभो
व्याधिभयं सुखाप्तिर्ज्ञातिबन्ध आज्ञाप्राधान्यं विपक्षोत्पत्तिर्वाहनलाभः शोकः प्रव्रज्यास्रुत-
ज्ञातिकुलच्छेदो माहात्म्यबललाभः सन्तापः क्लेशः पुत्रलाभो धनागमः शोकः प्रामाण्यमा-
धिपत्यमुपभोगो भयं दौर्भाग्यमैश्वर्यं राजपूजेति। परतः सर्वप्रशस्तं विन्द्यात्’।। इति।।२०।।
अथ गन्धलक्षणमाह—
करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः ।
शुभदोऽनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः ॥२१॥
कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः ।
वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥२२॥
करवीर, कमल, हाथी के मद, घृत, कुङ्कुम, कुन्द या चम्पापुष्प के समान सुगन्धि
हो तो शुभदायी होता है। गोमूत्र, पङ्क या मेद ( हड्डी के अन्तर्गत तैल भाग ) की तरह
गन्ध हो तो अशुभ फलदायी होता है। कछुआ, मज्जा, रक्त या क्षार की तरह गन्ध हो
तो भय और दुःख देने वाला होता है। वैदूर्यमणि, सुवर्ण या बिजली के समान खड्ग
में कान्ति हो तो जय, आरोग्य और उन्नतिकारक होता है।।२१-२२।।
करवीरं प्रसिद्धम्। उत्पलं नीलोत्पलम्। गजमदं हस्तिमदम्। घृतमाज्यम्। कुङ्कुमं
प्रसिद्धम्। कुन्दः पुष्पविशेषः। चम्पकं पुष्पजातिः। एषां सगन्धः सदृशगन्धः खड्गः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA