बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 483, कुल 728 में से
संदर्भ में पढ़ेंपरिवेषलक्षणाध्यायः ४४१
अवृष्टि का भय, चार हों तो मन्त्री और पुरोहित के साथ राजा की मृत्यु और सूर्य या चन्द्र
के परिवेष में पाँच आदि ग्रह हों तो संसार का प्रलय ही जानना चाहिये।।१६-१७।।
दिवसकृत आदित्यस्य शशिनश्चन्द्रस्य वा द्वयोस्ताराग्रहयोः परिवेषाभ्यन्तरे स्थितयो-
र्युद्धानि संग्रामान् विजानीयाद् विन्द्यात्। त्रिषु ग्रहेषु परिवेषमध्यगतेषु क्षुद् दुर्भिक्षभयम्।
अवृष्टिभयं च प्रोक्तं कथितम्।
यातीति । चतुर्षु ताराग्रहेषु परिवेषमण्डलमध्यगतेषु नरेन्द्रो राजा सामात्यपुरोहितः,
अमात्या मन्त्रिणः, पुरोहित आचार्यस्तैः सहितो मृत्योर्वशं याति। म्रियत इत्यर्थः। पञ्चादिषु
पञ्चसु षट्सु वा मण्डलस्थेषु परिवेषमध्यवर्तिषु जगतो विश्वस्य प्रलयं संहारमिव विद्धि
जानीहि ।।१६-१७।।
अधुना ताराग्रहाणां नक्षत्राणां वा पृथक्परिविष्टानां फलमाह—
ताराग्रहस्य कुर्यात् पृथगेव समुत्थितो नरेन्द्रवधम्।
नक्षत्राणामथवा यदि केतोर्नोदयो भवति ।।१८।।
यदि केतु का उदय न हुआ हो तब ताराग्रह या नक्षत्र अलग-अलग परिवेषयुत हों तो
राजा का नाश करते हैं।।१८।।
पृथक्ताराग्रहस्य भौमादेः। नक्षत्राणामश्विन्यादीनां वा परिवेषः समुत्थित उत्पन्नो नरेन्द्रस्य
राज्ञो वधं मरणं कुर्यात्। अथवा विकल्पे। यदि केतोरुदयो न भवति तदैवम्। केतूदये
तु पुरस्तत्फलमेव न ताराग्रहादिपरिवेषकृतम्। तथा च काश्यपः—
परिवेषाभ्यन्तरगौ द्वौ ग्रहौ यायिनागरौ।
युद्धं च भवति क्षिप्रं घोररूपं सुदारुणम्।।
मण्डलान्तरिताः पञ्च जगतः संक्षयावहाः।
अथ ताराग्रहस्यैव नक्षत्राणामथापि वा।।
परिवेषो यदा दृश्यस्तदा नरपतेर्वधः।
यदि केतूदयो न स्यादन्यथा तद्वदेत् फलम्।। इति।।१८।।
अधुना तिथिक्रमेण परिवेषफलान्याह—
विप्रक्षत्रियविट्शूद्रहा भवेत् प्रतिपदादिषु क्रमशः।
श्रेणीपुरकोशानां पञ्चम्यादिष्वशुभकारी ।।१९।।
युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः।
पुररोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् ।।२०।।
नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम्।
कुर्यात्तु पञ्चदश्यां पीडां मनुजाधिपस्यैव ।।२१।।
प्रतिपदा आदि चार तिथियों में यदि परिवेष दिखाई दे तो ब्राह्मण आदि चार वर्णों का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA