बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 191, कुल 728 में से
संदर्भ में पढ़ेंबुधचाराध्यायः १५१
श्चन्द्रस्तत्तनयो बुधः। एतानि नक्षत्राणि। विचरंस्त्रिवसन्नेतेषामन्यतमस्य मृद्नन्नुपमर्दयन्
विचरति। मर्दनं भेदः। तदा अवृष्टिमवर्षणं सरोगभयां गदभीत्या सहितां करोति। मर्दनमत्र
श्रवणमध्यात् केषाञ्चित् सम्भवति केषाञ्चिन्न सम्भवति। आचार्येणोक्तं पूर्वशास्त्रानुसारेणेति।
तथा च कश्यपः—
रोहिणीं वैश्वदेवं च सौम्यवैष्णववासवान्।
शशिशजश्च यदा हन्ति प्रजा रोगैश्च पीडयेत्।। इति।।२।।
अन्येषु नक्षत्रेष्व्वाह—
रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा।
शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥३॥
आर्द्रा से मघा तक के पाँच नक्षत्रों में से किसी नक्षत्र में बुध का सञ्चार हो तो
शस्त्रनिपात (युद्ध), क्षुधा, रोग, अनावृष्टि और अनेक प्रकार के दुःख से प्रजाओं को
पीड़ित करता है।।३।।
रौद्रमार्द्रा तदादीनि मघान्तानि पञ्च नक्षत्राणि। आर्द्रापुनर्वसुतिष्याश्लेषामघाश्चेति।
चन्द्रजे उपाश्रिते व्यवस्थिते तानि चोपमृद्वन् यदि विचरति तदा प्रजानां पीडा भवति।
कैः शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः। शस्त्रनिपातेन युद्धेन। क्षुद्भयेन दुर्भिक्षभीत्या।
रोगैर्गदैः। अनावृष्ट्या अवर्षणेन। सन्तापेनोपतापैन च। तथा च कश्यपः—
रौद्रादीनि यदा पञ्च नक्षत्राणीन्दुन्दनः।
भिनत्ति शस्त्रदुर्भिक्षव्याधिभिः पीड्यते जगत्।। इति ।।३।।
अन्येष्व्वाह—
हस्तादीनि चरन् षडृक्षाण्युपपीडयन् गवामशुभः।
स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम् ।।४।।
हस्त से छः (हस्त, चित्रा, स्वाती, विशाखा, अनुराधा, ज्येष्ठा) नक्षत्रों के योगतारा
का भेदन करते हुये बुध विचरण करे तो गौओं को अशुभ करता है और भूमि को अनेक
प्रकार के अन्नों से परिपूर्ण करता है।।४।।
हस्तादीनि षड् नक्षत्राणि हस्तचित्रास्वातीविशाखानुराधाज्येष्ठा इति। एतानि षड्
नक्षत्राणि विचरन् बुध एतेषु व्यवा...स्तथोपपीडयन् योगतारकां भिन्दन् गवामशुभो
भवति, गाः हन्ति। स्नेहानां तैलघृतानाम्। रसानां मधुरादीनामर्घवृद्धिं सामर्घ्यम्। तथोर्वीं
भूमिं प्रभूतान्नां पर्याप्तसस्यां करोति। तथा च कश्यपः—
- हस्तादीनि चरन् षड् वै नक्षत्राणीन्दुन्दनः।
गवामशुभदः प्रोक्तः सुभिक्षक्षेमकारकः।। इति।।४।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA