बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 145, कुल 728 में से
संदर्भ में पढ़ेंराहुचाराध्यायः १०५
शास्त्रसद्भावः परमार्थ उक्त कथितः। इतिशब्दो निश्चयार्थे। तथा च ब्रह्मसिद्धान्ते—
यदि राहुः प्राग्भागादिन्दुं छादयति किं तथा नार्कम्।
स्थित्यर्द्धं महदिन्दोर्यथा तथा किं न सूर्यस्य।।
किं प्रतिविषयं सूर्यो राहुश्चान्यो यतो रविग्रहणे।
ग्रासान्यत्वं न ततो राहुकृतं ग्रहणमर्केंन्द्रोः।। इति।
ननु यद्येवमर्केन्द्रोर्न राहुकृतं ग्रहणं तच्छ्रुतिसंहितालोकैः सह विरुध्यते। यतो लोके
राहुकृतं ग्रहणमित्यागोपालाङ्गनादिप्रसिद्धं स्मृतिषूक्तम्—
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात्।
तथा—
राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च।। इति।
तथा च श्रुतौ—
स्वर्भानुहं वा आसुरिः सूर्य तमसा विव्याधेति।
संहितासु तथा च गर्गः—
यन्नक्षत्रगतो राहुर्ग्रसते शशिभास्करौ।
तज्जातानां भवेत् पीडा ये नराः शान्तिवर्जिताः।। इति।
तथा च ब्रह्मसिद्धान्ते—
राहुकृतं ग्रहणद्वयमागोपालाङ्गनादिसिद्धमिदम्।
बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र।।
स्मृतिषूक्तं न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ।
राहुग्रस्ते सूर्ये सर्वं गङ्गासमं तोयम्।।
स्वर्भानुरासुरिरिनं तमसा विव्याध वेदवाक्यमिदम्।। इति।।१३।।
एवं मत्वा लोकश्रुतिस्मृतिसंहितानां यथैक्यं भवति तत्प्रतिपादनाय राहोरेव ग्राहकत्वमाह—
योऽसावसुरो राहुस्तस्य वरो ब्रह्मणाऽयमाज्ञप्तः।
आप्यायनमुपरागे दत्तहुतांशेन ते भविता ।।१४।।
तस्मिन् काले सान्निध्यमस्य तेनोपचर्यते राहुः।
याम्योत्तरा शशिगतिर्गणितेऽप्युपचर्यते तेन ।।१५।।
पूर्व समय में ब्रह्मा जी ने राहु को ऐसा वर दिया था कि ग्रहण-समय में लोगों के द्वारा दिये
गये हुतांश से तेरी तृप्ति होती रहेगी। इस कारण ग्रहण-समय में सूर्य-चन्द्र को राहु का सान्निध्य
होता है और राहु के कारण ही चन्द्र की दक्षिणोत्तरा गति उत्पन्न होती है।।१४-१५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA