सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 54, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 54

Adh. IV. Sl. 7] चतुर्थोऽध्यायः 35
Sloka 6.—If the Moon goes through the south of
Visakha and Anuradha, she will prove malefic. If she
should pass even through the middle of Magha or of
Visakha, she will bring on prosperity.
तथा च समाससंहितायाम्
भवति विशाखाद्यानां षण्णां याम्येन पापवृश्चन्द्रः ।
उदगिष्टः सर्वेषां पित्र्येशाविशाखयोश्चान्तः ॥ - इति.
षडनागतानि पौष्णाद् द्वादशरौद्राच्च मध्ययोगीनि ।
ज्येष्ठाद्यानि नवर्क्षाण्युडुपतिनातीत्य युज्यन्ते ॥७॥
Sloka 7.—The six stars reckoned from Revati con-
join with the Moon when she has not actually come
to them. The twelve asterisms counted from Ardra
conjoin with the Moon only when she comes to their
middle portion, while the remaining nine reckoned from
Jyeshta conjoin with the Moon only after they have been
completely passed by her.
तथा च गर्गः
उत्तराश्च तथाऽऽदित्यं विशाखा चैव रोहिणी ।
एतानि षडध्यर्द्धभोगीनि महाक्षेत्राणि ।
मघाश्विकृत्तिकासोमतिष्याप्यभगाह्वयाः ।
सावित्रचित्राऽनूराधा मूलं तोयं च वैष्णवम् ॥
धनिष्ठाजैकपाच्चैव समभागः प्रकीर्तितः ।
एतानि पञ्चदश समभोगीनि मध्यक्षेत्राणि ।
याम्येन्द्ररुद्रवायव्यसार्पवारुणसंज्ञिताः ।
एतानि षडर्द्धभोगीनि स्वल्पक्षेत्राणि ।
तथा च ब्रह्मसिद्धान्ते
केशादित्यविशाखाप्रौष्ठपदार्यम्णवैश्वदेवानि ।
षट्पङ्ज्येष्ठाभरणीस्वात्यार्द्रावारुणश्लेषाः ॥
पञ्चदशात्रानुक्ताम्वेकाऽभिजितुक्तमृक्षभोगोऽन्यः ।
तन्मानं नाक्षत्रं दुरधिगमं मन्दबुद्धीनाम् ॥