बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 365, कुल 1105 में से
संदर्भ में पढ़ें346 बृहत्संहितायाम् [Adh. XLVI. Sl. 4-6.
ते तु सम्बोधिता विप्रैः शान्तये मङ्गळानि च ।
श्रद्दधानाः प्रकुर्वन्ति न ते यान्ति पराभवम् ॥
ये तु न प्रतिकुर्वन्ति क्रियामश्रद्धयान्विताः ।
नास्तिक्यादथवा कोपाद्विनश्यन्त्यथवा चिरात् ॥
दिव्यं ग्रहर्क्षवैकृतमुल्कानिर्घातपवनपरिवेषाः ।
गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥४॥
भौमं चरस्थिरभवं तच्छान्तिभिराहतं शममुपैति ।
नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ॥५॥
Slokas 4-5.—The celestial portents consist of the
unnatural behaviour of planets and asterisms, meteors,
thunders, storms and halos; the atmospheric ones, of
aerial cities, rainbows, etc.; and the terrestrial ones
arise from the moving and the stationary objects. This
last class can be warded off through expiatory rites; the
atmospheric can be mitigated, while the celestial accord-
ing to some cannot be so assuaged.
तथा च गर्गः ।
खभानुकेतुनक्षत्रग्रहतारार्कजेन्द्रजम् ।
दिवि चोत्पद्यते यच्च तद्दिव्यमिति कीर्तितम् ॥
वाध्वाभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च ।
खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम् ॥
भूमावुत्पद्यते यच्च स्थावरं वाथ जङ्गमम् ।
तदेकदेशिकं भौममुत्पातं परिकीर्तितम् ॥
तथा च समाससंहितायाम् ॥
दिव्यं ग्रहर्क्षजातं भुवि भौमं स्थिरचरोद्भवं यच्च ।
दिग्दाहोल्कापतनं परिवेषाद्यं वियत्प्रभवम् ॥
तथा च काश्यपः
भौमं शान्तिहतं नाशमुपगच्छति मार्दवम् ।
नाभसं च शमं याति दिव्यमुत्पातदर्शनम् ॥
दिव्यमपि शममुपैति प्रभूतकनाश्नगोमहीदानैः ।
रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च ॥६॥