बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 364, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XLVI. Sl. 2-3.] षट्चत्वारिंशोऽध्यायः ३४५
Sloka 1.—I shall now treat of portents enunciated
by Atri and expounded by Garga after him. The fol-
lowing is a summary of them: Anything contrary to
nature is termed a portent or Utpata.
तथा च समाससंहितायाम् ॥
यः प्रकृतिविपर्यालः सर्वः सङ्क्षेपतः स उत्पातः ।
क्षिति गगनदिक्समुत्थो यथोत्तरं गुरुतरो भवति ॥
अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति ।
संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः ॥२॥
Sloka 2.—Sins accumulate as a result of wrongful
actions committed by men; and troubles arise from
them as a consequence. The three kinds of portents,
viz, celestial, atmospheric and terrestrial, foreshadow
such troubles.
तथा च गर्गः ।
अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः ।
नरापचाराजियतमुपसर्गः प्रवर्तते ॥
मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् ।
तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ॥३॥
Sloka 3.—Displeased with the misdeeds of men,
the Gods create these portents. The King should cause
expiatory ceremonies to be performed in order to ward
off their evil consequences.
तथा च गर्गः ।
ततोऽपचारो मर्त्यानामपरंक्ष्यन्ति देवताः ॥
ते सृजन्त्यद्भुतान् भावान् दिव्यभूम्यन्तरिक्षजान् ॥
त एव सर्वलोकानामुत्पाता देवनिर्मिताः ।
विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च ॥
तान् शास्त्रविधिनादिष्टान् पश्यन्ति ज्ञानचक्षुषा ।
प्रवदन्ति ह्यसंक्लिष्टानां ये ऽन्यथास्थिताः ॥