बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 316, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXXV. Sl. 5-8.] पञ्चत्रिंशोऽध्यायः 297
जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरौ स्थिते व्याधिः ।
वाल्मीके शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम् ॥५॥
Sloka 5.—A rainbow seen in the middle of water
causes drought ; on land, destruction of crops ; on a tree,
disease ; on an anthill, danger from weapons ; and at
night, the death of a minister.
वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्रयाम् ।
पश्चात्सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥६॥
Sloka 6.—One seen in the east when there is no rain
produces rain and vice versa ; and in the west, it always
indicates rain.
चापं मघोनः कुरुते निशायामाखण्डलायां दिशि भूपपीडाम् ।
याम्यापरोदक्प्रभवं निहन्यात्सेनापतिं नायकमन्त्रिणौ च ॥७॥
Sloka 7.—A rainbow seen at night in the east causes
ill-health to the king ; and in the south, west and north,
it destroys the commander-in-chief, a leading person and
a minister respectively.
तथा च काश्यपः
अवृष्टौ वर्षणं कुर्यादैन्द्रीं दिशमुपाश्रितम् ।
पश्चिमायां महद्वर्षं करोतीन्द्रधनुः सदा ॥
रात्रौ चेद् दृश्यते पूर्वं भयं नरपतेर्भवेत् ।
याम्यायां बलमुख्यश्च विनाशमभिगच्छति ॥
पश्चिमायां प्रधानस्य सौम्यायां मन्त्रिणो वधः ।
स्निग्धवर्णैर्घनैः शुभ्रैर्वारुण्यां दिशि दृश्यते ॥
बहुदकं सुभिक्षं च शिवं सस्यप्रदं भवेत् ।
निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्दिश्यं नरपतिमुख्यं न चिराद्धन्यात् ॥८॥
Sloka 8.—At night, the rainbow in white, red, yellow
and dark colours engenders suffering to Brahmins and