सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 315, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 315

296 बृहत्संहितायाम् [Adh. XXXV. Sl. 4.
तथा च ऋषिपुत्र आह
द्विरुत्तरमविच्छिन्नं स्निग्धमिन्द्रायुधं महत् ।
पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु ॥
तथा च नन्दी आह
बहुवर्णमविच्छिन्नं द्विरुन्नतं स्निग्धममरपतिचापम् ।
पश्चात्पार्श्वे वापि प्रयाणकाले रिपुवधाय ॥
तथा च बृहस्पतिः
नीलताम्रमविच्छिन्नं द्विगुणं सिद्धमायतम् ।
पृष्ठतः पार्श्वयोर्वापि जयायेन्द्रधनुर्भवेत् ॥
तथा च गर्गोक्तमयूरचित्रके पठ्यते ।
पूर्वस्यां दिशि सङ्ग्रामे भवतीन्द्रधनुर्यदि ।
पश्चिमे च प्रयातानां जयस्तत्र न संशयः ॥
येषां प्रवृत्ते सङ्ग्रामे पश्चादिन्द्रधनुर्भवेत् ।
पूर्वेण तु प्रयातानां जयस्तत्र न संशयः ॥
येषां प्रवृत्ते संग्रामे वामपार्श्वे च पृष्ठतः ।
धनुः प्रादुर्भवेदैन्द्रं जयस्तेषां न संशयः ॥
येषां प्रवृत्ते संग्रामे पुरस्ताद्दक्षिणेन वा ।
धनुः प्रादुर्भवेदैन्द्रं वधं तेषां विनिर्दिशेत् ॥
पश्चिमे तु दिशो भागे भवतीन्द्रधनुर्यदि ।
समेघगगनं स्निग्धं वैदूर्यविमलद्युति ॥
विद्युच्च निर्मला भाति पूर्वे वायुर्यदा भवेत् ।
सप्तरात्रं महावर्षं निर्दिशेद्दैवचिन्तकः ॥
विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि ।
पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ॥४॥
Sloka 4.—A rainbow that appears in an intermediate
direction destroys the lord of that particular region ; one
seen in a cloudless sky causes pestilence and one that is
pink, yellow and blue produces evils from war, fire and
famine respectively.
For the lords of the several quarters, see Chapter LXXXVI—