बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 136, कुल 1105 में से
संदर्भ में पढ़ेंआप्ये वैश्वे व्याधिभयं वैष्णवे कर्णवेदना ॥
धनिष्ठासु कुरुन्मस्थान् वारुणे शौण्डिकक्षयम् ।
प्रोष्ठपादे पूर्वसत्कानहिर्बुध्न्ये फलक्षयः ॥
यायिनां सन्नृपाणां च पौष्णे ज्ञेयं महद्भयम् ।
आश्विन्यां हयपीडाकृन्नरणां कृषिजिविनाम् ॥
चतुर्दशीं पञ्चदशीं तथाष्टमीं तमिस्रपक्षस्य तिथिं भृगोः सुतः ।
यदा व्रजेद्दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते ॥३६॥
Sloka 36.—When Venus becomes visible or sets on
the 14th, 15th or the 8th day of the dark fortnight, the
earth will appear as if it were made of water, i.e., there
will be abundant rain.
तथा च काश्यपः
कृष्णपक्षे ह्यमावास्याचतुर्दश्यष्टमीषु च ।
उदयं भार्गवः कुर्यात्तदा वृष्टिं प्रमुञ्चति ॥
पराशरश्चात्र विशेषनाह ।
कार्तिके तु यदा मासि कुरुतेऽस्तमयोदयौ ।
तदाह्नां नवतिं पूर्णां देवो भुवि न वर्षति ॥
वर्त्तमानो यदा शुक्लो कृत्तिकासु बृहस्पतिः ।
उदेति तु तदा देवस्तां समां वर्षते समाम् ॥
अस्तोदये तु शुक्रस्य यदि चन्द्रादिवाकरौ ।
आवृत्तिमार्गं कुरुते तदा वर्षति भार्गवः ॥
अतीक्ष्णर्के भे विचरन् यदि वर्षति भार्गवः ।
वापुकार्क्षगतो व्यक्तं षोडशार्चिर्न वर्षति ॥
गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
तदा प्रजा रुग्भयेशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम् ॥
Sloka 37—If Venus and Jupiter be in exact opposi-
tion, and in the East and West (1st and 7th), the people
will be oppressed with sickness, fear and grief and will not
receive even a drop of water from heaven.