बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 135, कुल 1105 में से
संदर्भ में पढ़ें116 बृहत्संहितायाम् [Adh. IX. Sl. 34-35
is in Sravana, there will be ear-disease, and when he is
in Dhanishta, there will be danger to heretics.
शतभिषजि शौण्डिकानामजैकभे द्यूतजीविनां पीडाम् ।
कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥३४॥
Sloka 34.—When Venus is in Satabhishak, distillers
of toddy or arrack will be distressed. When he is in
Purvabhadra, gamblers will come to grief. The Kurus
and Panchalas also will suffer. But there will be rain.
आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् ।
अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥३५॥
Sloka 35.—In Uttarabhadra, Venus causes damage
to fruits and roots ; in Revati, to travellers and marchers;
in Aswini, to horse-keepers ; and in Bharani, to Kiratas
and Yavanas.
तथा च काश्यपः ।
भेदयेत् कृत्तिकां शुक्रो बहुतोयं विमुञ्चति ।
रोहिण्यां मरणं घोरं गृध्राकुलभयाकुलम् ॥
मृगे तु सर्वसस्यानां क्षयं कुर्याद्भृगोः सुतः ।
आद्रांसु च कलिङ्गानां कोशलानां भयावहः ॥
पुनर्वसौ विदर्भाणां पीडयत्युशनोत्तथा ।
पुष्ये पुष्टिं समायान्ति जनाः सस्यानि वृष्टयः ॥
आश्लेषासूशना भेदात्पीडयेन्मृगुजः प्रजाः ।
मघाभेदकरः शुक्रो महामात्रांश्च पीडयेत् ॥
भाग्ये शबरविध्वंसं बहुवृष्टिं प्रमुञ्चति ।
आर्यम्णे तु कुरुक्षेत्रं पाञ्चालांश्चोपतापयेत् ॥
हस्ते चित्रकराणां तु पीडा वृष्टिक्षयो भवेत् ।
सुवृष्टिं क्रूरकृत्पीडां चित्राभेदं यदा व्रजेत् ॥
स्वातिभेदे सुवृष्टिं च वणिग्नाविकभीतिदः ।
विशाखायां सुवृष्टिं च मैत्रे मित्रं विरुध्यति ॥
ऐन्द्रे पौरविरोधः स्यान्मूले तु भिषजां भयम् ।