बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 124, कुल 1105 में से
संदर्भ में पढ़ेंनवमोऽध्यायः
शुक्रचारः ॥९॥
नागगजैरावतवृषभ गोजरद्गवमृगाजदहनाख्याः ।
अश्विन्याद्याः कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः ॥१॥
(1) नाग (2) गज (3) ऐरावत (4) वृषभ (5) गो (6) जरद्गव- (7) मृग (8) अज- (9) दहन-
तथा च देवलः ।
अश्विन्यादिस्त्रिभः सर्वा नागाद्या दहनान्तिकाः ।
वीथयो भृगुपुत्रस्य नव प्रोक्ताः पुरातनैः ॥
तथा च काश्यपः
त्रिष्वश्विन्यादिषु यदा चरति भृगुनन्दनः ।
नागवीथीति सा ज्ञेया प्रथमान्या निबोधत ॥
रोहिण्यादिगजा ज्ञेयाऽदित्याद्यैरावती स्मृता ।
मघाद्या वृषभा ज्ञेया हस्ताद्या गौः प्रकीर्तिता ॥
जारद्गवी विशाखाद्या मूलाद्या मृगवीथिका ।
अजवीथी विष्णुभाद्येऽजाद्या तु दहना स्मृता ॥
नागा तु पवनयाम्यानलानि पैतामहात् त्रिभास्तिस्रः ।
गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥२॥
बृ. सं. 14