सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 107, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 107

88 बृहत्संहितायाम् [Adh. VIII. Sl. 2
the succeeding years will bear the names of the months
in their regular order.
तथा च ऋषिपुत्र आह ।
यत्रोत्तिष्ठति नक्षत्रे सह येन प्रवर्धते ।
संवत्सरः स विज्ञेयस्तन्नक्षत्रविधायकः ॥
तथा च काश्यपः
संवत्सरे युगे चैव षष्ठ्यब्दे ऽङ्गिरसः सुतः ।
यन्नक्षत्रोदयं कुर्यात्तत्सञ्ज्ञं वत्सरं विदुः ॥
प्रभवादीनामब्दानां प्रवृत्तिर्गुरोरुदयकालादित एव यतोगुरुरत्रावाधितत्वेन
स्थितः। तथा च ऋषिपुत्र आह ।
तिष्यादि च युगं प्राहुर्वासिष्ठात्रिपराशराः ।
बृहस्पतेस्तु सौम्यन्तं सदा द्वादशवार्षिकम् ॥
उदेति यस्मिन्मासे तु प्रवासोपगतोऽङ्गिराः ।
तस्मात्संवत्सरो मासो बार्हस्पत्योऽथ गम्यते ॥
तथा च गर्गः
प्रवासान्ते सहर्क्षेण तूदितो युगपच्चरेत् ।
तस्मात्कालादृक्षंपूर्वो गुरोरब्दः प्रवर्तते ॥
युगानि द्वादशाब्दानि तत्र तानि बृहस्पतेः ।
तत्र सावनसौराभ्यां सावनाब्दो निरुच्यते ॥
एवमाश्वयुजं चैव चैत्रं चैव बृहस्पतिः ।
संवत्सरं नाशयते सप्तत्यब्दशतेऽधिके॥
वर्षाणि कार्तिकादीन्याग्नेयाद्गद्वयानुयोगीनि ।
क्रमशःत्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥२॥
Sloka 2.—The years commence from Kartika and
are composed of two asterisms each beginning with
Krittika and follow in regular order. But the 5th, the
11th and the 12th year comprise each three asterisms.
तथा च गर्गः
फाल्गुनी चैव हस्तं च चरेद्यदि बृहस्पतिः ।
स फाल्गुनोऽब्दः क्रूरः स्याद्धान्यमुच्चाटतां व्रजेत् ॥