सामग्री पर जाएँ
सर्वकोश
बृहत्पाराशर होरा शास्त्र (महर्षि पराशर - सम्पूर्ण फलित ज्योतिष महाकोश सान्वय सटीक)

बृहत्पाराशर होरा शास्त्र (महर्षि पराशर - सम्पूर्ण फलित ज्योतिष महाकोश सान्वय सटीक)

Brihat Parashara Hora Shastra of Maharshi Parasara with Commentary

महर्षि पराशर (टीकाकार: पं. गणेशदत्त पाठक / सीताराम झा) द्वारा

DevanagariHindipublished800 पृष्ठ

पृष्ठ 774, कुल 800 में से

संदर्भ में पढ़ें
पृष्ठ 774

७६२ बृहत्पाराशरहोराशास्त्रम् ।
अध्यायानुक्रमः ।। ९९ ।।
अध्यानुक्रमं वक्ष्ये त्वादौ शास्त्रावतारणम् ।
प्रादुर्भावो ग्रहाणां तु द्वितीये च प्रकीर्त्तितः ।। १ ।।
ततो राशिस्वभावश्च चतुर्थे दृष्टिवर्णनम् ।
गर्भाधानं ततः पश्चात्सूतिकाविधिरेव च ।। २ ।।
अरिष्टं सप्तमाध्याये सुतस्य तदनंतरम् ।
पित्रोश्च मातुलादीनां तद्भंगोदशमात्स्मृतः ।। ३ ।।
धूमाद्येकादशे मिश्रः पंचागानां फलं तथा ।
कारकादि फलं तद्भावानां च फलं तथा ।। ४ ।।
द्वादश द्वादशाऽध्याये द्विग्रहाद्याश्चषट्स्मृताः ।
अष्टवर्गादि चैकस्मिन्नाभसादिस्तु चापरे ।। ५ ।।
चिरायुषादि योगांश्च पंचाध्यायास्ततः परम् ।
राजयोगास्तथावस्था अंतर्दायविधिस्ततः ।। ६ ।।
दायानां च फलं सप्तस्वांतर्दायस्त्रयोदश ।
लक्षणं शुभवर्गाणां योगादिषु बलं ततः ।। ७ ।।
एवमशीतिरध्यायाः पूर्वभागे समीरिताः ।
स्पष्ट है।।१-७।।
उत्तरार्धस्यानुक्रमणिका-
कलौ युगे ततः प्रोक्तं प्रथमेऽष्टकवर्गकः ।। ८ ।।
द्वितीये भावदृग्वीर्यमिष्टकष्टबलं ततः ।
चतुर्थे रश्मिसंभूतिरिष्टकष्टं द्विजोत्तम ।। ९ ।।
लोकयात्रैकदेशे च पंचमे च ततः परम् ।
त्रयं च लोकयात्राणादेकदेशस्यचाष्टमे ।। १० ।।
नवमे लोकयात्रा च दशमे दाय एव च ।
अंतर्दायस्तथाध्याये दायानां विषयस्ततः ।। ११ ।।