बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)
Brihaspati Sutra or Barhaspatya Rajanitishastra with Commentary
महर्षि बृहस्पति (सम्पादक: डॉ. एफ. डब्ल्यू. थॉमस) द्वारा
पृष्ठ 43, कुल 100 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ११
वदनार्थं परान् स्तौति स बौद्धः ॥२८॥
लौकायतिको मृतो भवत्यर्थकामधर्ममोक्षविहीनो नारकी च॥२९॥
कुले च तत्कुलं तत्पुत्रपौत्रान्तरे विनश्यति ॥३०॥
कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो
नारकी भवति ॥३१॥
तस्मिन्काल ए[७ख]व कुलं विनश्यति ॥३२॥
क्षपणकः स्वकुलग्रामवासिभिर्निन्दितो भवति त्रिकुलं
विनश्यति ॥३३॥
बौद्धसंचितं कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो
नारकी ॥३४॥
एवंपाषण्डिसंपर्कं मनसाऽपि न कुर्यात् ॥३५॥
सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेण राज्यं परि-
पालयितुं न शक्यते ॥३६॥
ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति ॥३७॥
कार्यं निश्चित्य विषयाननुभवति यः स उत्तममर्थं साध-
यति ॥३८॥
चेष्टया कार्य[८ क]ज्ञान्यर्थपर इति धर्मवानिति लोकैर्यथा न
ज्ञायते तथा कर्त्तव्यम् ॥३९॥
14. M W तं । 15. W स्वगृहग्राम । 16. W जीवति ।
17. W सतिकुलम् । 18. M W बौद्धः । 19. W ०पर्कं । 20. W
सुव्यस्थि० । 21. M ज्ञातिना । 22. W०नां । 23. W ०चर ।