बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)
Brihaspati Sutra or Barhaspatya Rajanitishastra with Commentary
महर्षि बृहस्पति (सम्पादक: डॉ. एफ. डब्ल्यू. थॉमस) द्वारा
पृष्ठ 42, कुल 100 में से
संदर्भ में पढ़ें१० बार्हस्पत्यसूत्रम् ।
यदा सन्ध्योपासनाद्यग्निहोत्रादि परित्यज्याहिंसार्थमेच्छुः तदा
क्षपणकपा[६ख]षण्डी ॥१४॥
यदा वेदोक्तकर्म ज्ञानं च सर्वेश्वरं शिवं विष्णुं श्रियमपि परित्य-
ज्य सर्वं शून्यमिति वदति तदा बौद्धाभिधानपाषण्डी ॥१५॥
वृथा धर्मं वदत्यर्थसाधनं लोकायतिकः पिण्डाढ्यश्चोर इति
च ॥१६॥
सर्वमर्थार्थं करोत्यग्निहोत्रसन्ध्याजपादीन् ॥१७॥
स्वदोषं गूहितुं कामार्थं वेदं पठति ॥१८॥
अग्निहोत्रादीन् करोति ॥१९॥
सुरापानार्थमहिलामेहनार्थं करोति ॥२०॥
विष्ण्वादयः सुरापानिन इति कापालिकाः ॥२१॥
धर्मा[७क]र्थं मलपिण्डधारणाद्धर्मं वदति क्षपणकः ॥२२॥
शिवादय इति वदति क्षपणकः ॥२३॥
परापवादार्थं वेदशास्त्रधर्मादीन् पठति ॥२४॥
सर्वान्निन्दति ॥२५॥
महेश्वरविष्ण्वादीनपि ॥२६॥
सोऽप्यशनार्थं धर्मं वदति ॥२७॥
6. M W ०सनाद् । 7. W शिवा; M W वदन्ति । 8. M W
Sic (read चौर्यम ?) 9. M Sic (read र्तः० or र्थं ?) 10. M W
०मेनार्थम् । 11. M सुरापिनं । 12. W omits वेदं । 13. W. ०र्थं ।