बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
पृष्ठ 88, कुल 175 में से
संदर्भ में पढ़ें७६ बृहद्देश्यां
अंशाः स्यु रक्तगान्धार्यां पञ्च (म?ध)र्षभ(पूजि?वर्जि)ताः ॥
रीमतिक्रम्य सगयोः कार्ये सन्निधिमेलने ।
रिलोपरिधलोपाभ्यां षाडवौडुवमिष्यते ॥ २५९ ॥
बहुत्वं निघयोरंशः पञ्चमो द्वेष्टि षाडवम् ।
द्विप(ज्जौ ?न्त्यौ )डुवितं षड्जनिमपाः सङ्गतौ सगौ ॥
पञ्चपाण्यादि षाड्जीवदृषभादिस्तु मूर्छना ।
तृतीयप्रेक्षणगतं ध्रुवायां विनियोजनम् ॥ २६१ ॥
(तस्या ?) तस्या गान्धारो (न्यासः, मध्यमोऽ)पन्यासः ।
प्रस्तारः — पानीसासा गासापानी (१) । सांसांपापा मामा-
गागा (२) । मापाधापा मापाधप(म)ग (३) । मामामामा मामा-
मामा (४) । धानीपापधधानीपापा (५) । मां पा मां पा पापा-
पामा (६) । रीगांमांपा पापामापा (७) । रीगामापा पापा-
मापा (८) । पापापापा पापापापा (९) । रीगांधाधा रीगा-
गागा (१०) । गापापाधं धानिधपापा (११) । मापरिमागा
गागागागा (१२) । रक्तगान्धारी ॥
कैशिक्यामृषभान्यांशा निधायंशौ (प ? य)दा तदा ।
न्यासः पञ्चम एव स्यादन्यदा(वि ? हि)श्रुती मतौ ॥
, अन्ये तु निगपन्यासा(न्) निघयोरंशयोर्विदुः ।
रिलोपरिधलोपेन षाडवौडुवितं मतम् ॥ २६३ ॥
रिरल्पो निपबाहुल्यमंशानां सङ्गतिर्मिथः ।
षाडवौडुविते (दृ ? द्वि)ष्टः क्रमात् पञ्चमधैवतौ ॥ २६४ ॥