ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
DevanagariHindipublished737 पृष्ठ
पृष्ठ 31, कुल 737 में से
संदर्भ में पढ़ेंपृष्ठ 31
( १५ )
इन्दूच्चोनार्ककोटिघ्ना गत्यंशा विभवा विधोः ।
गुणो व्यर्केन्दुदोः कोट्यो रूपपञ्चाप्तयोः क्रमात् ॥
फले शशाङ्कतद्गत्योर्लिप्ताद्ये स्वर्णयोर्वधे ।
ऋणं चन्द्रे धनं भुक्तौ स्वर्णसाम्यवधेऽन्यथा ॥
इत्यनेनैतादृश एव चन्द्रसंस्कारो मुञ्जालाचार्येण 'लघुमानस'नामके
करणग्रन्थे कथितः । परमेतयोः सहशत्वाभावात् -- श्रीपतिना वेधेन दृष्ट्वा ततो
भिन्नोऽयं कथित इति प्रतिभाति । श्रीपत्युक्तोऽयं संस्कारो भास्कराचार्येणासकृद्-
दृष्ट्वा विवेचितस्तत्र स्वोपलब्धेर्विस्तारपूर्वकं प्रतिपादनार्थमेको 'बीजोपनय'
नामको ग्रन्थः ५६ श्लोकात्मकः सिद्धान्तशिरोमणि रचनैकवर्षानन्तरं—
मयाय बीजोपनये यदन्ते सूर्योक्तमाद्यं परमं रहस्यम् ।
प्रकाशये गोप्यमपीह देवं प्रणम्य बीजं जगतां हितार्थ