ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 30, कुल 737 में से
संदर्भ में पढ़ें( १४ )
त्यक्त्वा भास्कराचार्येण ऋतुवर्णनद्वारा पदज्ञानं समीचीनं ज्ञात्वा कृतमिति ।
चन्द्रग्रहणाध्याये रविचन्द्रभुवां योजनबिम्बानि, रविचन्द्रयोर्योजनात्मककर्ण-
स्पष्टीकरणं, भूभा बिम्बानयनं, ग्रासमानाद्यानयनं, परिलेखप्रकाराश्चाचार्यैरुक्ताः,
श्रीपतिना भास्कराचार्येण च कथनक्रममादाय विशेषतया तथैवानूदितः । ब्रह्म-
गुप्तकृत एव सूर्यग्रहणाधिकारः श्रीपतिना प्रायः श्लोकान्तरैरुक्तः । उदयास्तमया-
ध्याये आयनदृक्कर्मसाधनं कृतं परं तन्न समीचीनं श्रीपतिनाऽपि प्राचीनरोक्तं
तदानयनं कृत्वा—
खनभोधृतिभिः समाहतं प्रथमं दृक्फलमायनाह्वयम् ।
द्युचराश्रितभोदयासुभिर्विहृतं स्पष्टमिह प्रजायते ॥
इत्यनेन तत्स्फुटीकरणं कृतं, एतदवलोक्य भास्कराचार्येण 'आयनं वल-
नमस्फुटेषुणा सङ्गुणमि' त्यादिना तदेव