बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 94, कुल 152 में से
संदर्भ में पढ़ेंअनेकवर्णसमीकरणम् । ०५
विलोकनीयम् । मदीयस्वल्पनायुक्त्या च बहवः प्रश्नाः सुखेन साध्या भवन्तीति ।
अत्र मदीयप्रकारे क्षे = ५ । धनाना- ६, ८, १०० मपवर्त्तनम् = २ ।
तेन भा ५ क्षे १ / हार ततो गुणः = १, लब्धि. = २, इष्टाहतस्वस्वहारेण युक्ते इत्यनेन २५
इष्टं प्रकल्प्य गुणः ५१, लब्धिः १२७
६ × १२७ = ७६२ ∴ ७६२ / ५१ = १४, ४८ / ५१
सर्वधनम् = ४८ × ५ + १४ = २५४
एवं सर्वत्र समानम् ।
अत्र विष्णुदैवज्ञोक्तं सूत्रम् ।
"(ग) शेषविक्रयहतेष्टविक्रयः
शीतरश्मिरहितो भवेत् क्रयः ।
पुंधनादधिक इष्टविक्रयः
कल्प्य इत्थमवगम्य धीमता" ॥
(ग) वि० श०-पञ्चशतकाः संत्वेति । अत्र प्रथमादिधनानि = प्र, द्वि, तृ ।
यत्र प्र > द्वि > तृ । अत्र क्रयमानम् = क = या । विक्रयमानम् = वि । फलानि
समार्घेण क्रीत्वा विक्रीय च लब्धयः क्रमेण का, नी, पी । शेषमेककं पञ्चभिः
पञ्चभिः पणैर्विक्रीतमेव सर्वे समधना अभूवन् । शेषविक्रयमानम् = शे । अतः
समधनानि प्रथमलब्धिग्रहणात् ततो द्वितीयादिलब्धितः—
सम = शे. प्र. क - का. शे. वि + का = शे. प्र. क - का (शे. वि - १)
" = शे. द्वि. क - नी. शे. वि + नी = शे. द्वि. क - नी (शे. वि - १)
" = शे. तृ. क - पी. शे. वि + पी = शे. तृ. क - पी (शे. वि - १)
{ (नी - का) (शे. वि - १) = क. शे (द्वि - प्र) ।
अतः { (पी - का) (शे. वि - १) = क. शे (तृ - प्र) ।
{ (पी - नी) (शे. वि - १) = क. शे (तृ - द्वि) ।
अतः क = (नी - का) (शे. वि - १) / शे (द्वि - प्र) = (पी - का) (शे. वि - १) / शे (तृ - प्र)
= (पी - नी) (शे. वि - १) / शे. (तृ - द्वि)