बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 84, कुल 152 में से
संदर्भ में पढ़ेंअनेकवर्णसमीकरणम् । ८५
कल्पितम्। अनेन पीतकमुत्थाप्य रूपेषु प्रक्षिप्य जातम् का=नी २ रू १४
(१) अतः कुट्टकविधिना लब्धिगुणौ सक्षेपौ लो २ रू १४=ल०
लो १ रू ०=गु०
यावत्तावदुन्माने स्वस्वमानेन कालकादीनुत्थाप्य स्वस्वच्छेदेन
विभज्य लब्धं यावत्तावन्मानम् या=लो १ रू २ । लोहितकमिष्टं रूपत्र-
येणोत्थाप्य जातानि यावत्तावदादीनां मानानि १, ८, ३, ४ । एभिर्मौ-
ल्थानि जीवाश्चोत्थापिताः (पारावतादयः शतान्तर्वर्त्तिनः) ।
पक्षिणः ५, ५६, २४, १२ ।
मौल्यानि ३, ४०, २१, ३६ ।
अथवा चतुष्केणेष्टेन मानानि २, ६, ४, ४ । उत्थापिते जाताः
पक्षिणः शतान्तर्वर्त्तिनः १०, ४२, ३६, १२ ।
मौल्यानि ६, ३०, २८, ३६ ।
अथवा पञ्चकेन मानानि ३, ४, ५, ४ । एभिरुत्थापने कृते जाताः
पृ १५, २८, ४५, १२ । } एवमिष्टवशादनेकधा (२) ।
मौ ९, २०, ३५, ३६ । }
उदाहरणम् ।
षड्भक्तः पञ्चाग्रः पञ्चविभक्तो भवेच्चतुष्काग्रः ।
चतुरुद्धृतस्त्रिकाग्रो द्वयग्रस्त्रिसमुद्धृतः कः स्यात् ॥ ६ ॥
अत्र राशिः या १ । अयं षड्भक्तः पञ्चाग्र इति षड्भिर्भागे ह्रिय-
नी = लो १ रू० , लो १ रू० , लो १ रू० , लो १ रू० , लो १ रू०,
पी = लो ० रू१ , लो ० रू२ , लो ० रू३ , लो ० रू४ , लो ० रू५
अत्र संख्यात्मकं धनमानार्थं प्रथममानत्रयमकिञ्चित्करं चतुर्थे लोहितकस्य ३,
४, ५, ६ एभिरुत्थापने कृते चत्वारि मानानि, पञ्चमे च लोहितकस्य १, २,
साभ्यामुत्थापने कृते मानद्वयम् । एवं यावत्तावदादीनां षण्मानान्वेव भवन्ति भास्कर-
प्रदर्शितगणितेन ।
(१) वि० टी०—यद्वा भाज्ये रूपमात्रं हरस्तत्र कुट्टकवचनमप्रमेय । भाज्य-
स्याल्पत्वात्पूर्वं वर्णान्तरेणोत्थाप्य भाज्यपूर्ववर्णमानानि गुणेन हन्यन्ते ।
(२) वि० टी०—अत्र निष्पार षोडशौयेति ।