बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 8, कुल 152 में से
संदर्भ में पढ़ें४ बीजगणिते
उदाहरणम् ।
धनं धनेनर्णमृणेन निघ्नं द्वयं क्षयेण स्वमृणेन किं स्यात् ॥ १ ॥
न्यासः—रू २ रू ३ धनं धनघ्नं धनं स्यादिति जातम् रू ६ ।
” रू २̇ रू ३̇ ऋणमृणघ्नं धनं ” रू ६ ।
” रू २ रू ३̇ धनमृणगुणमृणं ” रू ६̇ ।
” रू २̇ रू ३ ऋणं धनगुणमृणं ” रू ६̇ ।
इति धनर्णगुणनम् ।
(१)भागहारेऽपि चैवं निरुक्तमिति ।
उदाहरणम् ।
रूपाष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम् ।
ऋणं धनेन स्वमृणेन किं स्याद्द्रुतं वदेदं यदि विबुधीषि ॥ १ ॥
न्यासः—रू ८ रू ४ धनं धनहृतं धनं स्यादिति जातम् रू २ ।
” रू ८̇ रू ४̇ ऋणमृणहृतं ” रू २ ।
” रू ८̇ रू ४ ऋणं धनहृतमृणं स्यादिति जातम् रू २̇ ।
” रू ८ रू ४̇ धनमृणहृतमृणं ” रू २̇ ।
इति धनर्णभागहारः ।
वर्गे मूले च करणसूत्रे वृत्तार्धम् ।
(२)कृतिः स्वर्णयोः स्वं स्वमूले धनर्णे
न मूलं क्षयस्यास्ति तस्या कृतित्वात् ॥ २ ॥
वर्गोदाहरणम् ।
धनस्य रूपत्रितयस्य वर्गं क्षयस्य च ब्रूहि सखे ममाशु ।
न्यासः—रू ३ । रू ३̇ । जातौ वर्गौ रू ९ । रू ९ ।
(१) अत्रोपपत्तिर्गुणनोपपत्तिरेवेत्येवनातिगद्यते ।
(२) अत्रोपपत्तिः । समाद्विघात इति परिभाषया धनर्णगुणनयुक्त्या चातिसरला ।