बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 64, कुल 152 में से
संदर्भ में पढ़ेंअव्यक्तवर्गादिसमीकरणम् । ६५
यावव १ राशिवर्गवर्ग ऊनितो जात = यावव १ याव २ं या ४०० ।
अयं रूपोनायुतसम इति समशोधने कृते जातौ पक्षौ
यावव १ याव २ या ४०० रू ० ।
यावव ० याव ० या ० रू ९९९९ ।
अत्राद्यपक्षे किल यावत्तावच्चतुःशतीं रूपाधिकां प्रक्षिप्य मूलं
लभ्यते परं तावति क्षिप्ते नान्यपक्षस्य मूलमस्ति एवं क्रिया न निर्व-
हत्यतोऽत्र स्वबुद्धिः । इह पक्षयोर्यावत्तावद्वर्गचतुष्टयं यावत्ताव-
चतुःशतीं रूपं च प्रक्षिप्य मूले
याव १ या ० रू १ ।
याव ० या २ रू १०० ।
पुनरनयोः समीकरणेन प्राग्वल्लुब्धं यावत्तावन्मानम् ११ । इत्यादि
बुद्धिमता ज्ञेयम् ।
उदाहरणम् ।
वनान्तराले प्लवगाष्टभागः संवर्गितो चलति जातरागः ।
फूत्कारनादप्रतिनाददृप्तो दृष्टा गिरौ द्वादश ते कियन्तः ॥ ८ ॥
अत्र कपियूथम् = या १ । अस्याष्टांशवर्गो द्वादशयुतो यूथसम इति
पक्षौ { याव १ या ० रू ७६८ ।
६४
याव ० या १ रू ० ।
एतौ समच्छेदीकृत्य छेदगमे शोधने च कृते जातौ पक्षौ
याव १ या ६४ं रू ० ।
याव ० या ० रू ७६ं८
इह पक्षयोर्द्वात्रिंशद्वर्गं १०२४ प्रक्षिप्य मूले
या १ रू ३२ं ।
या ० रू १६ ।
अत्राद्यपक्षर्णरूपेभ्योऽल्पानि व्यक्तपक्षरूपाणि सन्ति तानि
धनमृणं च कृत्वा लब्धं द्विविधं यावत्तावन्मानम् = ४८, १६ ।
उदाहरणम् ।
यूथात् पञ्चांशकरसोनो वर्गितो गह्वरं गतः ।
दृष्टः शाखामृगः शाखामारूढो वद ते कति ॥ ९ ॥
९