बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 59, कुल 152 में से
संदर्भ में पढ़ें५८ बीजगणिते
कोटियुतावपि ।
अथ कोटिकर्णान्तरे भुजे च ज्ञाते उदाहरणम् ।
चक्रक्रोञ्चाकुलितसलिले क्वापि दृष्टं तडागे
तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् ।
मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे
तस्मिन् मग्नं गणक कथय क्षिप्रमम्भःप्रमाणम् ॥ २३ ॥
अत्र नलप्रमाणं जलगाम्भीर्यमिति तत्प्रमाणम् = या १ । इयं कोटिः।
सा कलिकामा॑नयुता जातः कर्णः = या २ रू १ / २ । हस्तद्वयं भुजः = रू २।
रू १ / २
अत्रापि दोःकोटिवर्गयोगं कर्ण-
रू २
वर्गसमं कृत्वा लब्धं जलगाम्भीर्यम् = १५/४।
या १
कर्णमानम् = १७/४ ।
या २ रू १ / २
उदाहरणम् ।
वृक्षाद्धस्तशतोच्छ्रयाच्छतयुगे वापीं कपिः कोऽप्यगा-
दुत्तीर्याथ परो द्रुतं श्रुतिपथात् प्रोड्डीय किञ्चिद्द्रुमात् ।
जातैवं समता तयोर्यदि गतावुड्डीनमानं कियद्-
विद्वांश्चेत् सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाऽऽचक्ष्व मे ॥ २४ ॥
अत्र समगतिः = २०० । उड्डीनमानम् = या १ । एतद्युतो-
च्छ्रायः कोटिः । यावत्तावदूना समगतिः कर्णः । तद्वाप्यन्तरं भुजः।
न्यासः
भुजकोटिवर्गैक्यं कर्णवर्ग
या १̇ रू २००
या १
समं कृत्वा लब्धमुड्डीनमान-
रू १००
म् = ५० ।
रू २००
उदाहरणम् ।
पञ्चदशदशकरोच्चद्रुद्वयोश्शतमध्यभूमिकयोः ।
इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमानमाचक्ष्व ॥ २५ ॥