बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 56, कुल 152 में से
संदर्भ में पढ़ेंएकवर्णसमीकरणम् ।
शेषकरण्योरनयोः क ५६४४८, क २०४८ अन्तरं(क) योग इति
जातो योगः क ३६१९२।
भाजके च क ४६२४ । अनया भाज्ये हृते लब्धं यावत्तावन्मानम्
रू २ क ८ ।
इयमेव लघ्वाबाधा, एतदूना भूरन्याऽबाधा रू १ क २। यावत्ताव-
न्मानेन लम्बवर्गानुत्थाप्य स्वाबाधावर्गं स्वभुजवर्गादपास्य वा जातो
लम्बवर्ग. रू ३ क ८ । एतस्य मूलसममेव लम्बमानम् रू १ क २ ।
उदाहरणम् ।
असमानसमच्छेदान् राशींस्तांश्चतुरो वद ।
यदैक्यं यद्धनैक्यं वा येषां वर्गैक्यसंमितम् ॥ १७ ॥
अत्र राशयः या १, या २, या ३, या ४ । एषां योग. या १० ।
वर्गयोगेनानेन याव ३० सम इति पक्षौ यावत्तावताऽपवर्त्य
न्यास. । या ३० रू ० ।
या ० रू १० ।
समशोधनादिना प्राग्वल्लब्धयावत्तावन्मानेनोत्थापिता राशय
१/३, २/३, ३/३ (१), ४/३ ।
अथ द्वितीयोदाहरणे राशय. या १, या २, या ३, या ४ । एषां
घनैक्यम् याघ १०० । एतद्वर्गैक्यमानेन याव ३० सममिति पक्षौ यावद्घ-
र्गेणापवर्त्य प्राग्वल्लब्धयावत्तावन्मानेनोत्थापिता जाता राशय.
३/१०, ६/१०, (१) ९/१०, १२/१०, (१) ।
(क) वि० श०—अत्र “योग करण्योर्महताम्” इत्यादिना द्वयोर्योग
= ५८४९६ महती । द्वयोर्घात = ११५६०५५०४, अतो मूलम् = १०७५२
द्विगुणम् = २१५०४ लघु च प्रकॢप्य जातमन्तरम् क ३६१९२ । वा “लब्ध्या
हताया” इत्यादिना ५६४४८ / २०४८ हरभाज्याविह गनाडुभिरपवर्तितौ । अत ५६४४८ / २०४८
= ४४१ / १६ अत पदम् = २१ / ४, निरेकम् = १७ / ४ स्वहृतम् = २८९ / १६ । लघुघ्नम् =
२८९ × २०४८ / १६ = २८९ × क १२८ = ३६१९२ ।
(१) वि० श०—एषु नापवर्तनमन्यथोदाहरणीयराशित्वसिद्धिरिति ।