बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
भारत में सार्वजनिक क्षेत्र (पब्लिक डोमेन) · कॉपीराइट समस्या बताएँ
DevanagariHindipublished152 पृष्ठ
पृष्ठ 15, कुल 152 में से
संदर्भ में पढ़ेंपृष्ठ 15
पूर्वगुण्यस्य वर्गार्थं न्यासः—
या ३ का २ नी १ रू १ । जातो वर्गः
याव ९ काव ४ नीव १ याकाभा १२ यानीभा ६ कानीभा ४
या ६ का ४ नी २ रू १ ।
वर्गादस्मान्मूलम् या ३ का २ नी १ रू १ ।
इत्यनेकवर्णषड्विधम् ।
अथ करणीषड्विधम् ।
तत्र संकलनव्यवकलनयोः करणसूत्रं वृत्तद्वयम् ।
- योगं करण्योर्महतीं प्रकल्प्य (१)वधस्य मूलं द्विगुणं लघुं च ।
योगान्तरे रूपवदेतयोः स्तो वर्गेण वर्गं गुणयेद्भजेद्वा ॥१॥ - साम्प्रतं नवीनमूलचिह्नेन यत् प्रकाश्यते तदेव प्राचीनैः करणीपदेन
व्यवह्रियेतऽतोऽत्र यदि सङ्केतद्वयमधिकृत्य गणितं क्रियते तदा √२ =क२, √८=
क८, अतोऽत्र लाघवार्थं नूतनसङ्केतेन वासनोच्यते । नूतनसङ्केतेन या>का इदं याव-
त्तावन्मानं कालकादर्धमिति च बोधयति ।
अथ कल्प्यते या >का तदा या १ का १̇ > ० अतोऽनयोर्वर्गे कृते याव १
याका २̇ काव १ > ० पक्षयोर्द्वयोः याका २ क्षेपे । याव १ काव १ > याका २
अतो द्वयो राश्योर्वर्गयोगो द्विघ्नतद्धातादधिको भवतीति सिध्यति ।
अथ √क ±√ग इदं स्ववर्गमूलसममतस्तद्वर्गः क+ग±२√कग अत्र क+ग
अयम् √क , √ग , अनयोर्वर्गयोगसमः । २√कग अयं च √क , √ग अनयोर्वधस्य
मूलेन द्विगुणेन समस्तथा पूर्वयुक्त्या
क+ग>२√कग अत आचार्येणास्य क+ग महती संज्ञा २√कग अस्य च
या लघुसंज्ञा कृता सा सार्थोऽथ पूर्वोक्तवर्गस्य क+ग±२√कग अस्य यन्मूलं वा
करणी स एव योगो वा वियोगो भवति √क , √ग, चानयोरित्युपपन्नः प्रथमः प्रकारः ।
अथ √क ±√ग इदं √ग अनेन विभज्य पुनर्यदि तेनैव √ग गुण्यते तदा समा-
नमेव तथा कृते न्यासः ।
√क ± √ग = √ग × (√(क/ग) ± १) अत्र कोष्ठकान्तर्गता सर्वा संख्या √ग
अनेन गुणिता बोध्या ।
(१) वि० दा०-“घातस्य मूलम्” इति पाठश्छन्दोऽनुकूलः साधुरिति ।