बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
भारत में सार्वजनिक क्षेत्र (पब्लिक डोमेन) · कॉपीराइट समस्या बताएँ
पृष्ठ 14, कुल 152 में से
संदर्भ में पढ़ेंअनेकवर्णषड्विधम् ५१
पूर्वसिद्धस्य मूलार्थे न्यासः—
याव १६ या ४८ रू ३६ लब्धं मूलम् या ४ रू ६ ।
इत्यव्यक्तवर्गमूले ।
इत्यव्यक्तषड्विधम् ।
अथानेकवर्णषड्विधम् ।
तत्र संकलनव्यवकलनोदाहरणम् ।
यावत्तावत्कालकनीलकवर्णास्त्रिपञ्चसप्तधनम् ।
द्वित्र्येकमितैः क्षयगैः सहिता रहिताः कति स्युस्तैः ॥ १ ॥
न्यासः—या ३ का ५ नी ७ । या २̇ का ३̇ नी १̇ । योगे जातम्
या १ का २ नी ६ । वियोगे जातम् या ५ का ८ नी ८ ।
इत्यनेकवर्णसंकलनव्यवकलने ।
गुणनादेरुदाहरणम् ।
यावत्तावत्त्रयमृणमृणं कालकौ नीलकः स्वं
रूपेणाढ्या द्विगुणितमितैस्ते तु तैरेव निघ्नाः ।
किं स्यात् तेषां गुणनजफलं गुण्यभक्तं च किं स्याद्-
गुण्यस्याथ प्रकथय कृतिं मूलमस्याः कृतेश्च ॥ १ ॥
न्यासः—गुण्यः या ३̇ का २̇ नी १ रू १ ।
गुणकः या ६̇ का ४̇ नी २ रू २ ।
गुणिते जातम् याव १८ काव ८ नीव २ याकाभा २४
यानीभा १२ कानीभा ८ या १२ का ८ नी ४ रू २ ।
अस्मादेव गुणनफलाद्गुण्यनानेन
या ३̇ का २̇ नी १ रू १
भक्तादाप्तो गुणकः या ६̇ का ४̇ नी २ रू २ ।
इत्यनेकवर्णगुणनभजने ।
यावव १ अस्य मूले याव १ अनयोरपि द्विप्रघातः पुनर्नाप भवेदित्यादिविचारयता न
व्यभिचारोऽवलोक्यते । वस्तुतस्तु भाष्यकृद्रीत्या यावव १ याघ ४ या ८ रू ४ अस्य
वर्गस्य मूलं न लभ्यतेऽव्यक्तमूलानयनरीत्या मूलं याव १ या २ रू २ प्राप्यते ताव-
ता नात्र कश्चिद्विरोधः ।