सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 79, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 79

समासतो व्यास एव चापित्त्वमेव धर्मः श्रुतिलक्षणो यः ।
सर्गाय विश्वस्य तनोषि रूप मर्यादाख्यं यत एवास्य बन्धः ॥ ३ ॥
प्रवाहमार्गोऽप्यखिलस्त्वयीशि प्रतिष्ठितो यत्र भवः पुनः पुनः ।
निजेच्छया रामरमे कदाचिदनुग्रहं चेत्कुरुषे विमुक्त्यै ॥ ४ ॥
कर्त्ता क्रिया कर्मगणः समस्तस्त्वयीशि सर्वं करणप्रतिष्ठितम् ।
सर्वस्याधिष्ठानमयैकशक्त्या विचिन्त्य भोगेच्छतयास्त्वधोजुषे ॥ ५ ॥
कुतर्कमोहोपहतस्वभावाः कुतः क वा नेति वदन्ति विश्वम् ।
अध्यात्मविद्याकुशलाः पुनस्त्वा सर्वस्य मूल परमामनन्ति ॥ ६ ॥
दण्डं भवे धारयाम्युग्रमद्धा पापात्मसु त्वत्स्वरूपद्रुहेषु ।
सोऽहं यदा स्यां परमोशमानी तदा मयि त्व विदधासिदण्डम् ॥ ७ ॥
लिखाम्यहं सदसच्चेतरेषां भवप्रवाहोपगतात्मनां नृणाम् ।
न तु त्वदीयोन्नतपादपद्मपराय