भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 53, कुल 423 में से
संदर्भ में पढ़ेंमाङ्गल्यकारम्दासीपादाब्जनखनिर्जितः ।
प्रपञ्चरचनातीतं यत्र शिल्पं विधेर्न च ॥ ३४ ॥
चिदानन्दमयं धाम तद्दृष्ट्वा चकितावुभौ ।
रसालकुञ्जविपिने क्रीडन्ती मां विलोक्य तौ ॥ ३५ ॥
क रामः पुण्डरीकाक्षः सहजानन्दिनीसखः ।
इत्यूचतुः सविनयं नत्वा च ब्रजभक्तितः ॥ ३६ ॥
अहं श्रीरामसत्प्रेमरसोन्मत्ता व्रजाङ्गना ।
न किंचिदुत्तरितवत्येतौ विनयतत्परौ ॥ ३७ ॥
तदा तु रजसा ब्रह्मा प्राविर्भूतरुषान्वितः ।
स्थावरत्वं प्रपद्यस्वेत्येवं शापमदात्प्रभुः ॥ ३८ ॥
शापोद्यतं विधिं दृष्ट्वा विष्णुः क्षोभं तदाकरोत् ।
ब्रह्मनत्यन्तमज्ञोऽसि न जानासि व्रजस्थितिम् ॥ ३९ ॥
कोटयो ब्रह्मणां यत्र लुटन्ति रजसाप्लुताः ।
कोटयश्चापि विष्णूनां यत्र मुह्यन्ति विभ्रमैः ॥ ४० ॥
कोटयश्चैव रुद्राणां यत्र नृत्यन्ति मत्तवत् ।
का कथेतरदेवानां पलालप्रायताजुषाम् ॥ ४१ ॥
कस्त्वं वराकः कश्चाहं यतः शब्दो निवर्तते ।
न च यत्र मनोवृत्तिस्तदानन्दपदं हि तत् ॥ ४२ ॥
तदिदं धाम रामस्य चिदानन्दस्य मूर्तिमत् ।
इयं रामप्रेममत्ता गोपिका कापि भाविनी ॥ ४३ ॥
आवां कौ चेति जानाति कौ चावां चिन्मये पदे ।
एतद्वचनमुचितं ब्रह्मन् यच्छापोऽभूदिमां प्रति ॥ ४४ ॥
अपूज्यत्वं प्रयाहि त्वमस्मान्महदतिक्रमात् ।
इति शप्त्वा स्वयं विष्णुर्ब्रह्माणं लोकपूजितम् ॥ ४५ ॥
अगात्तत्तस्तेन सार्धं श्रीरामं पुरुषोत्तमम् ।
१दृष्ट्वा रामं व्रजपतिं मोहितो ब्रह्मणा सह१ ॥ ४६ ॥
आज्ञामादाय भगवान् स्वयं विष्णुरुदारधीः ।
२सखीभावं समाश्रित्य ज्ञातयं वितवान् स्वयम्२ ॥ ४७ ॥
तत्राविष्टः स्वयं रामो रसिकः पुरुषोत्तमः ।
सहजानन्दिनी चापि तत्प्रियार्थमवातरत् ॥ ४८ ॥
एवं लीलारसानन्दः स्वाधतां प्रतिपद्यते ।
अहं च स्थावरं भावं नदीरूपं मनोहरम् ॥ ४९ ॥
१., २. नास्ति-बड़ो० ।