भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 52, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 52
- ३८ -
ज्ञातं वोऽग्रे हितं देवाः पौलस्त्यैः पीडितात्मनाम् ।
विरंचिना च रुद्रेण पौलस्त्यास्तपसोजिताः ॥ १८ ॥
प्रतिलब्धवराः सर्वे ननिर्जेया रामं विना ।
सोऽहं वः प्रविधास्यामि हितं देवत्वमीयुषाम् ॥ १९ ॥
प्रमोदविपिनं गत्वा साकेतस्य समंततः ।
रामधाम परं गुह्यं नित्यं तज्जनमण्डितम् ॥ २० ॥
तत्राहं विक्रमं कृत्वा करिष्ये वो हितं महत् ।
देवद्रुहां धर्मरुजां त्रयीप्रोज्झितवर्त्मनाम् ॥ २१ ॥
सतां च स्थापनं कार्यं करिष्यामि न संशयः ।
रामस्य सम्मुखे स्थित्वा करिष्ये विनय बहु ॥ २२ ॥
इत्युक्त्वा भगवान् विष्णुर्ब्रह्मभृग्वादिकान् गणान् ।
विसृज्य त्रिदशान् सर्वान् प्रमोदविपिनं गतः ॥ २३ ॥
विधिमेकं पुरस्कृत्य परं धाम व्रजालयम् ।
दधिम