सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 203, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 203
  • १८९ -
    मुमोह सहजा देवी प्रियदर्शनमात्रतः ।
    स्तब्धा वटतरोर्मूलमवलम्ब्य कृताश्रया ॥ ३५ ॥
    खिन्नगात्राभवत्सद्यः पुलकौघविसंष्ठुला ।
    कम्पमानतनुस्तन्वी घूर्णमाना पुनः पुनः ॥ ३६ ॥
    विवर्णवदना भूत्वा साश्रुनेत्राभवत्ततः ।
    मूर्छामिव सुसम्पन्ना प्रलीनसकलेन्द्रिया ॥ ३७ ॥
    मग्ना रामसुधासिन्धावुत्थातुमपि चाक्षमा ।
    एवं भावसुसम्पन्नां सहजां वीक्ष्य मातरः ॥ ३८ ॥
    धात्रीभावगताः सर्वा विस्मिता अभवन् स्त्रियः ।
    अङ्कमारोप्य तां निन्युः पालीग्रामं मनोहरम् ॥ ३९ ॥
    रामं च तत्सखायस्ते कथं कथमपि द्रुमात् ।
    मूर्च्छायितं गृहान्निन्युः सुखितस्य व्रजं प्रति ॥ ४० ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    श्रीशुकजनकसंवादे सहजोपाख्याने एकोनषष्टितमोऽध्यायः ॥ ५९ ॥
    ⁂
    षष्टितमोऽध्यायः
    श्रीशुक उवाच
    अथास्याः शोभना नाम धात्री विस्मितमानसा ।
    श्रीराजन्यैसमाचख्यौवृत्तं वटतले यथा ॥ १ ॥
    शोभनोवाच
    अहो प्रेमातिपुत्र्यास्ते बाल्य एव मुमोह या ।
    रामे सर्वगुणारा मे दृगानन्दे कलानिधौ ॥ २ ॥
    अतः परं किं नु सखि कुर्याद्वयसि संस्थिता ।
    विनैव वयउद्भावमेतावान् प्रेमवारिधिः ॥ ३ ॥
    रामेन्दुमस्याः पश्यन्त्याश्चक्षुः साश्रुकलोदयम् ।
    वपुः सकम्परोमाञ्च प्रलीनेन्द्रियकं मनः ॥ ४ ॥