भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 176, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 176
- १६२ -
तत आविर्भूद्ब्रह्मा देवः शब्दमयः स्वराट् ।
हिरण्यगर्भो भगवांस्ततोऽण्डं समवर्तत ॥ ३९ ॥
ततो विराडभूद्धीशः पुरुषः सर्वसंश्रयः ।
एवं प्रवृत्ते विश्व यदनुग्रहतः पुरा ॥ ४० ॥
सेयं जनक पुत्रीत्वं तव प्राप्ता न संशयः ।
इयं हनिष्यतितरां दैत्यान् भुवनभीषकान् ॥ ४१ ॥
इयं करिष्यतितरां केलीमन्यैरगोचराम् ।
स्वानन्दमात्रसम्पत्तिरसिकानन्दरूपिणी ॥ ४२ ॥
इयं भक्तिमयी भूत्वा भावुकान् रञ्जयिष्यति ।
इयं स्यन्मयी भूत्वा भुवनं भूषयिष्यति ॥ ४३ ॥
रघोवंशं निमेवंशं स्वभावान्यावयिष्यति ।
यावन्ति चरितान्यद्धा राघवेन्द्रः करिष्यति ॥ ४४ ॥
तेषामियमधिष्ठात्री भविष्यति न संशयः ।
गास्यन्ति चास्याश्चरितं गङ्गाजलसुपावनम् ॥ ४५ ॥
महौषधं भवातीनां नारदाद्याः सुरर्षयः ।
रामस्य नाम्नि या शक्तिर्भुवनत्रयपावने ॥ ४६ ॥
सैवास्या नामसम्बन्धाद्यथावदवधार्यताम् ।
यज्ञदानतपस्तीर्थस्वाध्यायाध्यात्मबोधतः ॥ ४७ ॥
कोटिसंख्यं रामनाम्नि पावित्र्यं वर्तते नृपः ।
ततः कोटिगुणं पुण्यमस्या नाम सनातनम् ॥ ४८ ॥
इति मत्वा भजन्त्येनां मुनयो नारदादयः ।
यावन्न कीर्तयेदस्या नाम कल्मषनाशनम् ॥ ४९ ॥
अनेककोटिजप्तोऽपि न रामः फलसाधकः ।
सरय्वाः पारद्वये हि रामधाम प्रतिष्ठितम् ॥ ५० ॥
रामधामोपरि स्पष्टं तव पुत्र्याः पर पदम् ।
यत्र रामोऽपि भगवान् पूर्णः श्रीपुरुषोत्तमः ॥ ५१ ॥
स्त्रीवेशेन निजात्मानं वेषयित्वा प्रयात्यहो ।
इयं हि सहजानन्दा तल्लोकस्याधिराज्यभाक् ॥ ५२ ॥
श्रीनन्दनाख्यगोपस्य दुहिता ब्रह्मरूपिणी ।
श्रीराजिमातृगर्भस्य रत्नमद्भुतमाधुरी ॥ ५३ ॥
ऊढा राघवेन्द्रेणैव रससाम्राज्यमूर्तये ।
रमिता रामचन्द्रेण राजरूपेण भोगिना ॥ ५४ ॥