भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 139, कुल 423 में से
संदर्भ में पढ़ें– १२५ –
अकस्मात्संनिवृत्तोऽसि विश्वसर्गविसर्गतः ।
नैतत्तवोचितं देव मम मुख्याधिकारिणः ॥ ४१ ॥
विवस्वानुवाच
एषा माया गुणमयी सृष्टेर्दुःखैककारणम् ।
इति विज्ञाय भगवन् ग्लानोऽहं लोकसर्गतः ॥ ४२ ॥
श्रीभगवानुवाच
त्यक्त्वा सर्वत्र संसक्तिं प्रजासर्गं प्रवर्तय ।
इत्येवं वर्तमानं त्वां मम माया न बाधते ॥ ४३ ॥
विवस्वानुवाच
कथं प्रवर्तमानेन ततः शक्यं निवर्तितुम् ।
त्याज्या कथं च संसक्तिरेतन्मे वद राघव ॥ ४४ ॥
श्रीभगवानुवाच
यथा प्रवर्तमानोऽपि प्रवृत्तौ नैव सज्जते ।
असंसक्तिश्च भवति तथा चोपदिशाम्यहम् ॥ ४५ ॥
जीवो नाम ममैवांशश्चित्तवृत्त्याभिवेष्टितः ।
न तस्य कापि संगोऽस्ति गौणीभिश् चित्तवृत्तिभिः ॥ ४६ ॥
एतज्जीवस्य जीवत्वं यदन्तःकरणे स्थितिः ।
करणं वृत्तिवृन्देन छाद्यत्येनमद्भुतम् ॥ ४७ ॥
यथा गोलस्थितं चक्षुरिन्द्रियं देवतात्मकम् ।
न तस्य कामलासंगो गोलमेवोपहन्यते ॥ ४८ ॥
यथा च मेघपटलैर्लोकदृष्टिर्विहन्यते ।
न त्वर्कमण्डलं दूरे तथा जीवोऽपि वृत्तिभिः ॥ ४९ ॥
मायावृत्तिरविद्याख्या स्वरूपाज्ञानरूपिणी ।
देहेन्द्रियप्राणमनःस्वात्माध्यासात्तथाज्ञता ॥ ५० ॥
तस्मादध्यास एवास्याः स्वरूपं मुख्यमुच्यते ।
तं वर्जयेद्विशेषेण सर्वत्र स्वात्मभावनातू ॥ ५१ ॥
शनैः शनैः शब्दनिष्ठः स्वात्मयोगं समभ्यसेत् ।
वृत्तिरोधनमार्गेण कुर्याच्चित्तं सुनिश्चलम् ॥ ५२ ॥
आत्मनिष्ठे तु मनसि वृत्तिरोधः प्रजायते ।
निर्वृत्तिकः सदा तिष्ठेज्जाग्रत्येव सुषुप्तिवत् ॥ ५३ ॥
अथान्तर्हृदयाम्भोजे मत्स्वरूपं विभावयेत् ।
यादृशं रोचते यस्य तादृशं स विभावयेत् ॥ ५४ ॥