भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 15, कुल 358 में से
संदर्भ में पढ़ेंभोजनकुतूहले
वृक्षाद्युपजीवनं भोगः जीवसाधनं, 'ओषधीभ्योऽन्नम् । अन्नात्पुरुषः।'
इति श्रुतेः ।
तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ।¹
व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्
तच्छूकधान्यमथ² मुद्गमकुष्ठकादि ।
शिम्बीनिगूढमिह तत् प्रवदन्ति शिम्बी-
धान्यं तृणोद्भवमथो तृणधान्यमाहुः³ ॥
इति । तत्र—
शूकोद्भवं लघु बलातिशयप्रदायि
मेध्यं त्रिदोषशमनं रुचिवीर्यकारि ।
शिम्बीभवं गुरु हिमं च विबन्धकारि
तद्वातलं तु शिशिरं तृणधान्यमाहुः ॥
गुरु दुर्जरम् । उक्तं च भावप्रकाशे—
मन्दानलो नरो द्रव्यं मात्रागुरु विवर्जयेत् ।
स्वभावतश्च गुरु यत् तथा संस्कारतो गुरु ॥
मात्रागुरु तु मुद्गादि माषादिः प्रकृतेर्गुरुः ।
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् ॥ इति ।
अथ शालिसामान्यगुणाः —
शालयो मधुरा स्निग्धा बल्या बद्धालपवर्चसः ।
कषाया लघवो रुच्याः स्वर्या वृष्याश्च बृंहणाः ॥
अल्पानिलकफाश्शीताः पित्तघ्ना मूत्रलास्तथा ।
शालयो दग्धमृज्जाताः कषाया लघुपाकिनः ॥
सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षकाः ।
कैदारा वातपित्तघ्ना गुरवः कफशुक्रलाः ॥
१. J1. omits 'वृक्षाद्यु... ...इति श्रुतेः'
२. Bh. धान्यमपि
३. J1. मन्यते