भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 109, कुल 358 में से
संदर्भ में पढ़ें९८ भोजनकुतूहल
आम्रातकं कषायाम्लमामं हृत्कण्ठकर्षणम् ।
पक्वं तु मधुराम्लाख्यं स्निग्धं किञ्चित्कफापहम् ॥
आंबाडें ।
चिञ्चात्यम्ला भवेदामा पक्वा तु मधुराम्लिका ।
वातघ्नी पित्तदाहास्रकफदोषप्रकोपिनी ॥
तथा —
पक्वं तु मधुराम्लं स्वादु भेदि विष्टम्भवातजित् ।
पक्वचिञ्चाफलरसो मधुरोऽम्लो रुचिप्रदः ॥
शोफपाककरो लेपे व्रणदोषविनाशनः ।
चिञ्चापत्रं तु शोफघ्नं रक्तदोषव्यथापहम् ॥
तस्य शुष्कत्वचः क्षारः शूलमन्दाग्निनाशनः ।
इति चिञ्चा ।
दीपनं गुरु सङ्ग्राहि स्निग्धं बैल्वं तु कोमलम् ।
तदेव पक्वं विज्ञेयं मधुरानुरसं गुरु ॥
कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ।
काञ्जिके संस्थितं बिल्वमग्निसन्दीपनं परम् ॥
हृद्यं रुचिकरं प्रोक्तमामवातविनाशनम् ॥
बिल्वफल ।
सेल्लुकी तिक्तमधुरा कषाया ग्राहिणी परा ।
कुष्ठास्रकफवातार्शोव्रणदोषार्तिनाशिनी ॥
सैलफल ।
कार्कटं तु फलं रुच्यं कषायं दीपनं परम् ।
कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलम् ॥
।
१. J₁: Bh लेपो।
२. P1. 11. सच्छकी. P2. मच्छकी ।
३. J₁. साइल ।