सामग्री पर जाएँ
सर्वकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 345, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 345

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२७

तत्र त्वायतनायतनवद्भावश्रवणात् । सर्वं ब्रह्मेति च सामानाधिकरण्यात् । यथानेका-
त्मको वृक्षः शाखा स्कन्धो मूलं चेत्येवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवति,
तां निवर्तयितुं सावधारणमाह ‘तमेवैकं जानथ आत्मानम्’ इति । एतदुक्तं भवति —
न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः । किं तर्हि ? अविद्याकृतं कार्यप्रपञ्चं
विद्यया प्रविलापयन्तस्तमेवैकमायतनभूतमात्मानं जानथैकरसमिति । यथा यस्मि-
न्नास्ते देवदत्तस्तदानयेत्युक्त आसनमेवानयति न देवदत्तम् , तद्वदायतनभूतस्यैवैकर-
सस्यात्मनो विज्ञेयत्वमुपदिश्यते । विकारानृताभिसन्धस्य चापवादः श्रूयते—‘मृत्योः
स मृत्युमाप्नोति य इह नानेव पश्यति (का० २।४।११) इति । सर्वं ब्रह्मेति तु सामा-
नाधिकरण्यं प्रपञ्चविलापनार्थं, नानेकरसताप्रतिपादनार्थम् । ‘स यथा सैन्धवघनोऽ-
नन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन
एव’ (बृह० ४।५।१३) इत्येकरसताश्रवणात् । तस्माद् द्युभ्वाद्यायतनं परं ब्रह्म ।
यच्चोक्तं—सेतुश्रुतेः सेतोश्च पारवत्त्वोपपत्तेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवि-

भामती

स्यादेतत् — आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेऽप्युपपद्यते ।
तथा च स एवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाह ꣸ तत्रायतनायतन-
वद्भावश्रवणाद् इति ꣸ । विकाररूपेऽनृतेऽनिर्वच्येऽभिसन्धोऽभिसन्धानं यस्य स तथोक्तः । भेदप्रपञ्चं
सत्यमभिमन्यमान इति यावत् । तस्यापवादो दोषः श्रूयते — “मृत्योः” इति । “सर्वं ब्रह्मेति तु” इति ।
यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थतो ब्रह्म , न तु यद् ब्रह्म तत्सर्वमित्यर्थः ।

भामती-व्याख्या

प्रसङ्गतः वाजिन द्रव्य का भी निष्पादक माना जाता है ] । जिन अनेक शब्दों का बोध कराने
के लिए 'स्वशब्द' तन्त्रोच्चरित है, वे हैं—आत्मशब्द, 'सत् शब्द' और 'ब्रह्म शब्द' ।
“तमेवैकं जानथ आत्मानम्” ( मुण्ड० २।२।५ ), “सन्मूला सोम्येमाः सर्वाः प्रजाः”
( छां० ६।८।४ ), “ब्रह्मैवेदममृतं पुरस्तात्” ( मुण्ड० २।२।११ ) इत्यादि वाक्यों में प्रयुक्त
आत्मादि शब्द साक्षात् ब्रह्म के जगदायतनत्वेन उपस्थापक हैं । आत्मादि सभी शब्द ब्रह्म के
स्वशब्द ( स्वकीय शब्द ) हैं ।

यह जो शङ्का होती है कि “यस्मिन् द्यौः पृथिवी चान्तरिक्षम्” ( मुण्ड० २।२।५ )
इत्यादि वाक्यों में जगत् और आत्मा का आयतन-आयतनभाव ( आधाराधेयभाव ) एवं
“ब्रह्मैवेदं विश्वम्” ( मुण्ड० २।२।११ ) इस प्रकार सामानाधिकरण्य श्रुत है, वह हिरण्यगर्भ में
भी उपपन्न हो जाता है, अतः वह यहाँ अमृतत्व का सेतु क्यों नहीं माना जा सकता ? उस
शङ्का को दूर करने के लिए भाष्यकार ने श्रुतिगत अवधारण को प्रस्तुत किया है—‘तां
निवर्तयितुं सावधारणमाह—तमेवैकं जानथ आत्मानम्’ । एवकाररूप अवधारण के द्वारा
अन्य-योग ( कार्य-प्रपञ्च का वैशिष्ट्य ) हटा कर शुद्ध ब्रह्म को ज्ञेय माना गया है, वह सकल
भेद-रहित एक मात्र ब्रह्मतत्त्व ही है । “विकारानृताभिसन्धस्य चापवादः श्रूयते”—इस भाष्य
का अर्थ यह है कि विकाररूप अनृत प्रपञ्च में जिस ( अज्ञानी का अभिसन्ध ( अभिमान )
है अर्थात् मिथ्या भेद-प्रपञ्च में जो सत्यत्व का अभिमान करता है, उसके लिए अपवाद
( दोष ) का अभिधान किया गया है—“मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” । जो
शाखा, स्कन्ध, मूलाद्यात्मक नानारूप वृक्ष के समान जगत् के आयतन को नानारस मानता
है, वह जन्म-मरण के प्रवाह में ही पड़ा रहता है । “सर्वं ब्रह्मेति तु सामानाधिकरण्यं प्रपञ्च
प्रविलापनार्थम्” । “यश्चौरः, स स्थाणुः”—इस प्रकार बाधित-सामानाधिकरण्य के समान ही