सामग्री पर जाएँ
सर्वकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 339, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 339

वैश्वानरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२१

मूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्रसंपत्तिं परमैश्वरस्य दर्श-
यति—'प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसंपन्नास्तथा नु व एतान्वक्ष्यामि
यथा प्रादेशमात्रमेवाभिसंपादग्रिष्यामीति । स होवाच मूर्धानमुपदिशन्नुवाचैष वा
अतिष्ठा वैश्वानर इति। चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति । नासिके
उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति। मुख्यमाकाशमुपदिशन्नुवाचैष बहुलो
वैश्वानर इति । मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति । चुबुकमुपदिशन्नु-
वाचैष वै प्रतिष्ठा वैश्वानर इति' । चुबुकमित्यधरं मुखफलकमुच्यते । यद्यपि वाजस-
नेयके द्यौरतिष्ठात्वगुणा समाम्नायत आदित्यश्च सुतेजस्त्वगुणः । छान्दोग्ये पुनद्यौः
सुतेजस्त्वगुणा समाम्नायत आदित्यश्च विश्वरूपत्वगुणः । तथापि नैतावता विशेषेण
किंचिद्धीयतं, प्रादेशमात्रश्रुतेरविशेषात् । सर्वशाखाप्रत्ययत्वाच्च । संपत्तिनिमित्तां
प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥

आमनन्ति चैनमस्मिन् ॥ ३२ ॥

आमनन्ति चैनं परमेश्वरमस्मिन् मूर्धचुबुकान्तराले जाबालाः—'य एषोऽनन्तोऽ-
व्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।
वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति' (जाबाल. १) ।
तत्र चेमामेव नासिकां या सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा,
सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीति वरणा नासीति निरुच्य
पुनरप्यामनन्ति—'कतमा चास्य स्थानं भवतीति । भ्रुवोर्ध्राणस्य च यः संधिः स एष
द्युलोकस्य परस्य च संधिर्भवतीति' (जाबा. १) । तस्मादुपपन्ना परमेश्वरे प्रादेशमात्र-
श्रुतिः । अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्रायो । प्रत्यगात्मतया सर्वैः प्राणिभिरभि-
विमीयत इत्यभिविमानः । अभिगतो वाऽयं प्रत्यगात्मत्वाद्विमानश्च मानवियोगादित्य-
भिविमानः । अभिविमिमीते वा सर्वं जगत्कारणत्वादित्यभिविमानः । तस्मात्परमेश्वरो


भामती

अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारः — ॐ आमनन्ति चैनमस्मिन् अविमुक्ते ॐ अविद्योपाधिक-
लिप्तावच्छेदे जीवात्मनि स खल्वविमुक्तः, तस्मिन् प्रतिष्ठितः परमात्मा तादात्म्यात् । अत एव हि
श्रुतिः—अनेन जीवेनात्मनेति । अविद्याकल्पितत्वेन भेदमाश्रित्याधाराधेयभावः । वरणा भ्रूः । शेष-


भामती-व्याख्या

वैश्वानर के अवयवों का आरोप करके वैश्वानर में प्रादेशमात्रता का गौण व्यवहार महर्षि
जैमिनि मानते हैं ॥ ३१ ॥

जाबालोपनिषत् में आए एक संवाद के द्वारा भी सूत्रकार प्रादेशमात्रता का उपपादन
करते हैं—"आमनन्ति चैनमस्मिन्" । "एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः”—यहाँ
जीव को अविमुक्त इस लिए कह दिया है कि वह अविद्यारूप उपाधि के द्वारा उपहित या
परिच्छिन्न है । उस अविमुक्त ( जीव ) में तादात्म्येन परमात्मा अवस्थित है, इसी लिए
परमेश्वर के वैसे ही संकल्प का प्रदर्शन श्रुति करती है—"अनेन जीवेनात्माननुप्रविश्य नामरूपे
व्याकरवाणि" ( छां. ६।३।२ ) । यद्यपि जीव और ब्रह्म का वास्तविक भेद न होने के कारण
'एषोऽनन्तः अविमुक्ते प्रतिष्ठितः'—इस प्रकार का आधार-आधेयभाव सम्भव नहीं, तथापि
अविद्या-कल्पित भेद को लेकर जीव को आधार और ब्रह्म को आधेय कह दिया गया है ।
उक्त श्रुति में आए 'वरणा' शब्द का सांकेतिक अर्थ भ्रू ( भौं ) है । शेष भाष्य सुगम और

४१