भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 193, कुल 639 में से
संदर्भ में पढ़ेंश्रुतब्रह्मणो विशेषः ] हिन्दीसहितभामतीसंवलितम् १७५
संसारित्वं शक्यं दर्शयितुं, वेदप्रमाणजनितब्रह्मात्मभावविरोधात् । न हि शरीराद्यात्मा-
भिमानिनो दुःखभयादिमत्त्वं दृष्टमिति तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभि-
माननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् ।
न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव
प्रव्रजितस्य धनाभिमानरहितस्य तदैव धनापहारनिमित्तं दुःखं भवति । न च कुण्ड-
लिनः कुण्डलत्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वा-
भिमानरहितस्य तदेव कुण्डलत्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्या —
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें