भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)
Bhaishajya Ratnavali Hindi
कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल) द्वारा
स्रोत: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (उद्गम)
पृष्ठ 329, कुल 1416 में से
संदर्भ में पढ़ेंचिकित्सा ] भाषाटीकासहिता । २९७
एतत् प्रोक्तं कुमाराणां रक्षणाय महौषधम् ।
बालरोगं निहन्त्याशु सर्वोपद्रवसंयुतम् ॥ ४६ ॥
पिशाचा दानवा दैत्या बालानां ये विघातकाः ।
यत्रौषधवरस्तिष्ठेत् तत्र सीमां त्यजन्ति ते ॥ ४७ ॥
बालानां गदयुक्तानां स्त्रीणां चापि विशेषतः ।
महागन्धकमेतद्धि सर्वव्याधिनिषूदनम् ॥
विना पाकेन सर्वाङ्गसुन्दरोऽयं प्रकीर्त्तितः ॥ ४८ ॥
यह रस विशेषकर बालकोंकी रक्षाके लिये कहा गया है । बालकोक सम्पूर्ण उपद्रवोंसहित रोगोंको तत्काल नष्ट करता है । जिस स्थानम यह उत्तम औषधि रहती है वहाँ बालकोंके प्राणोंको हरनेवाले पिशाच, दैत्य और दानव आदि नहीं ठहर सकते । यह महागन्धक नामक रस रोगसे पीडित बालकों और विशेषकर स्त्रियोंके सब प्रकारके रोगोंको दूर करता ह । इस रसकी यदि विना पुटपाक किये औषधियोंको एकत्र तपाये जलमें खरलकर गोली बना ली जाय तो इसको सर्वाङ्गसुन्दर रस कहते हैं ॥ २४६-४८ ॥
वैद्यनाथ वटी ।
रसस्य शाणं संगृह्य काञ्जिकेन तु शोधयेत् ।
चित्रकस्य रसेनापि त्रिफलायाश्च बुद्धिमान् ॥ ४९ ॥
रसार्द्धं गन्धकं शुद्धं भृङ्गराजरसेन वा ।
द्वाभ्यां संमूर्च्छनं कृत्वा स्वरसैः शाणसम्मितैः ॥ २५० ॥
खल्लयेत्तु शिलाखल्ले क्रमशो वक्ष्यमाणजैः ।
निर्गुण्डीमण्डुकीश्वेताकुचेलाग्रीष्मसुन्दरैः ॥ ५१ ॥
भृङ्गाह्वकेशराद्यैश्च जयेन्द्राशनकोत्कटैः ।
सर्षपाभां वटीं कृत्वा दद्यात्तां ग्रहणीगदे ॥ ५२ ॥
आमवातेऽग्निमान्द्ये च ज्वरे प्लीहोदरेषु च ।
वातश्लेष्मविकारेषु तथा श्लेष्मगदेषु च ॥ ५३ ॥
दातव्या गुटिकाः सप्त रोगिणे ग्रहणीगदे ।
अम्लतक्रादि सेव्यं तु कुर्वीत स्वेच्छया बहु ॥ ५४ ॥
श्रीमता वैद्यनाथेन लोकानुग्रहकारिणा ।
स्वप्नान्ते ब्राह्मणस्येयं भाषिता लिखितापि च ॥ ५५ ॥