सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

(पृष्ठेऽस्मिन् किमपि मुद्रितं संस्कृतमूलपाठजातं नोपलभ्यते / This page contains no printed Sanskrit/Devanagari text.)

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

श्रीगणेशाय नमः ।
बौधायनीयं शुल्बसूत्रम्
टीकाद्वयोपेतम्
अथ शुल्बमीमांसा
कान्तामुखं सन्ततमन्तिकस्थं यस्यावतंसेन्दुरवेक्ष्यमाणः ।
अवाप कार्श्यं किमु पाण्डुताञ्च ददातु देवः स सदा मुदं वः ॥ १ ॥
यस्याङ्गकान्तिप्रकरात् स्वकीयभासोऽभिभूतिं यदि शङ्कमानः ।
शिरस्पदं शीतमरीचिरागाच्छ्रेयोऽभिवृद्धिं शिव एष दद्यात् ॥ २ ॥
सौवनीलतनुकान्तिसङ्गमाद् इन्दिरामनयदेव कृष्णताम् ।
तत्सुवर्णतनुकान्तिसङ्गतैर्योजयामि हरिमाश्रयामि तम् ॥ ३ ॥
येनेन्दुसूर्यौ नयनीकृतौ किं हिरण्यगर्भस्य सुरक्षणाय ।
स्थितस्य नाभीकमलान्तराले निःश्रेयसायास्तु निरन्तरं सः ॥ ४ ॥
पारावारात् प्रोद्धृते चन्द्रलक्ष्म्यौ याभ्यां शश्वन्मौलिवक्षोविभूषे ।
सर्वैर्लोकैः पूजिते सङ्गृहीते वन्दे देवौ वामदेवाच्युतौ तौ ॥ ५ ॥
अबोधकत्वं निखिलेषु वेदेष्वपास्य ये विष्टपमन्वगृह्णन् ।
सूत्रैर्विचित्रार्थचमत्कृतैस्तान् बोधायनाचार्यवरान् भजामः ॥ ६ ॥
भट्टोक्ततन्त्रोद्धरणप्रवीणानद्वैतविद्यापरिपालने च ।
नमामि गोविन्दमखि प्रवेकान् भक्त्या मुहुः सम्प्रति तातपादान् ॥ ७ ॥
सर्वेषु तन्त्रेषु समं स्वतन्त्रः श्रीयज्ञनारायणदीक्षितेन्द्रः ।
अध्यापयद् यो बहुधानवद्यां विद्यामशेषामनुजं यथावत् ॥ ८ ॥
बोधायनोक्तसूत्रं, बुद्ध्वा बहुशो विचार्य नयरीत्या ।
श्रीवेङ्कटेश्वरमखी सुगमां तनोति शुल्बमीमांसाम् ॥ ९ ॥

२ शुल्बसूत्रम् [ प्रथममो-
इह खलु भगवान् बोधायनाचार्यं अग्निचयान् व्याख्यास्यन् शिष्टा-
चारपरिप्राप्तमथशब्दोच्चारणं मङ्गलं कुर्वन् शिष्यावधानार्थं वक्ष्यमाणार्थं
प्रतिजानीते—
अथेमेऽग्निचयाः ॥ १ ॥
अथेम इति । अयीनां श्येनाद्याकारविशिष्टस्थण्डिलविशेषाणां, चया-
श्चयनप्रकाराः प्रदर्श्यन्त इति शेषः ।
ननु चयनशब्दो मन्त्रकरणकेष्टकासाधनकस्थण्डिलनिर्वृत्त्यौपयिक-
व्यापारविशेषवाची । स च व्यापारो नात्र व्युत्पाद्यते, किन्तु सूत्र एव
“पुरुषमात्रेण वेणुना सपक्षपुच्छं१” मित्यारभ्य “कार्ष्णाजिनीरुपानह
उपमुच्यते२। कृषति लाङ्गलं पवीरवं “शुनं नः फला”३ इति
द्वाभ्याम्४। अथैतामैन्द्रीमिष्टकामाक्रमणं प्रत्युपदधाति५। पूर्वामुप-
दधाति । दक्षिणे विभक्तिमुपदधाति६। मध्ये हिरण्मयं पुरुषमुपदधाति७।
सुचावुपदधाति८। अथैता दशस्कन्ध्याः प्राचीरायातयति९। अवकामानू-
पदधाति१०। मण्डलेष्टकामुपदधाति११। मध्ये प्राणभृत उपदधाति१२।
संयत उपदधाति१३। अथाग्नेरङ्गान्युपदधाति१४। अथाग्नि सर्वतोमुखं
१. बौ. श्रौ. सू. ( प्रश्न. १०; खं. १६ : अध्या ६ : पृ. १७ )
२. ,, ,, ,, प्र. १०।२३; पृ. २१, १०।३६, पृ. ३७ )
३. ,, ,, ,, ( तै. सं ४. २. ५. १८-१६ )
४. ,, ,, ,, ( प्र. १०।२५; पृ. २४ )
५. ,, ,, ,, ( प्र. १०।२४; पृ. २३ )
६. ,, ,, ,, ( प्र. १०।३६; पृ. ३७. पृ. २३ )
७. ,, ,, ,, ( प्र. १०।३०; पृ. २८ ) ?
८. ,, ,, ,, ( प्र. १०।३०; पृ. २८)
९. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६
१०. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६
११. ,, ,, ,, ( प्र. १०।३१; पृ. २६)
१२. ,, ,, ,, ( प्र०१०।४०; पृ. ३८ )
१३. ,, ,, ,, ( प्र. १०।३५; पृ. ३२ )
१४. ,, ,, ,, ( प्र. १०।३६; पृ. ३३ )

१. प्रथम अध्याय: शुल्ब-परिभाषा, मान-प्रमाण, दीर्घचतुरस्र (पाइथागोरस प्रमेय मूल) एवं रज्जु-गणित

ऽध्यायः ] बौधायनीयं ३
चिनुते १५। अथ प्राजापत्यामुपदधाति १६। अथापस्या उपदधाति १७।
अथैताः पञ्चस्कन्ध्याः प्राचीरायातयति १८। अथाश्विनीरुपदधाति "ध्रुव-
क्षितिर्ध्रुवयोनिरि"ति पञ्च १९। अथ वालखिल्या उपदधाति २०।
अथाक्ष्णया स्तोमीया उपदधाति २१। अथासपन्ना उपदधाति २२। अथ
द्वाभ्यां शताभ्यां प्रोक्षति। अथाग्निमभिमृशति अग्निरसि वैश्वानरोऽसी-
त्यादिभिः प्रतिपादितम्। तथा च कथमिह प्रतिज्ञा "अथेमे अग्निचया"
इति चेत् ?
सत्यम्; तथाप्यत्र चयशब्देन कल्पसूत्रप्रतिपाद्यमान-मन्त्रकरणके-
ष्टकासाधनक्रमविशेषस्थण्डिलनिर्वृत्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्र-
विशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतो व्यापारो विवक्षितः।
स चेहैव व्युत्पाद्यते नान्यत्रेति युक्तैव प्रतिज्ञा।
ननूक्तरीत्या चयनशब्दोपपत्तिः। तथापि ज्वलनवाचिनोऽग्निशब्दस्य
कथं श्येनाद्याकारविशिष्टस्थण्डिलविशेषपरत्वमिति चेत्, उच्यते—यद्यपि
ज्वलनरूढोऽग्निशब्दः तथापि अग्निसंस्कारचयननिवृत्ते अग्न्याधारस्थ-
ण्डिलेऽपि लक्षणया अग्निशब्दः प्रयुज्यते। अत एव नवमे २३ अग्निशब्दस्य
स्थण्डिलविशेषपरत्वमभ्युपगम्य विचारितम्। तथा हि "हिरण्यशकलै-
रग्निं प्रोक्षतीति २४" श्रूयते।

१५. बौ. श्रौ. सू. (प्र. १०।४०; पृ. ४९)
१६. ,, ,, ,, (प्र. १०।३६; पृ. ३४)
१७. ,, ,, ,, (प्र. १०।३५; पृ. ३२)
१८. ,, ,, ,, (प्र. १०।३८; पृ. ३५)
१९. ,, ,, ,, (प्र. १०।३८; पृ. ३५) तै. सं. ४.३.४.१-५
२०. ,, ,, ,, (प्र. १०।४०; पृ. ३६)
२१. ,, ,, ,, (प्र. १०।४२; पृ. ४०)
२२. ,, ,, ,, (प्र. १०।५५; पृ. ४२)
२३. पू. मी. ६.१.७।
२४. बौ. श्रौ. सू. (प्र० १०।४७)

तत्र सन्देहः किं प्रोक्षणं प्रतीष्टकं कर्त्तव्यम् ? उत सकृदेवेति । तदर्थं
किमग्निरवयवीष्टकाव्यतिरिक्तो नास्तीति उतास्तीति । यदि नास्ति
तदा इष्टकानामेव संभृतानामग्निशब्दवाच्यत्वात् तासाञ्च संस्कार्याणां
बहुत्वात् प्रतिप्रधानं गुणावृत्ति१रिति प्रतीष्टकं प्रोक्षणं कर्त्तव्यम् ।
यद्यन्योऽवयव्यस्ति तदा तस्यैकत्वात् सकृदेव प्रोक्षणं कर्त्तव्यमिति ।
तत्र देवदत्तघटादौ एकावयवाकर्षणे अवयवान्तराकर्षणदर्शनात् अवयव-
सन्धिदर्शनाच्चास्त्यन्योऽवयवी । इह तु एकेष्टकाकर्षणे अन्यङ्गा-
नाकर्षणात् सन्धिदर्शनाच्च नान्योऽवयवी । यद्यपि पुरीषच्छन्नतया
न सन्धिदर्शनं तथाप्यनुमानेनावगम्यते सन्धिरिति नान्योऽवयवी ।
किञ्च पक्वैरामैश्चावयवैरन्योऽवयव्यारभ्यत इति काश्यपीयैर्दर्शित-
त्वाच्च । अतो नान्योऽवयवीति प्रतीष्टकं प्रोक्षणमिति प्राप्तेऽभिधीयते
देशकालभेदेऽप्यबाधिता एकत्वबुद्धिरेव हि अवयविसद्भावे प्रमाणम् ।
सा चेहाप्यस्तीत्यस्त्यवयवी । भागान्तरावकर्षणं वृक्षादावनैकान्तिकं,
सन्धिदर्शनञ्च पटादावनैकान्तिकमिति प्रमाणबलात् पक्वामैरप्यवयवैर-
वयव्यारभ्यत इति तस्यैकत्वात् सकृदेव प्रोक्षणमिति ।
नन्वग्निसंस्कारचयनमेवाप्रसिद्धम्, अस्त्येव चयनविधिः । “य एवं
विद्वानग्निं चिनुत” इति ।
ननु तत्र अग्निशब्दो यागनामधेयम् । न च प्रत्यक्षयजेरश्रवणाद्
यागनामत्वं नास्तीति वाच्यम् । प्रत्यक्षयज्यश्रवणेऽपि “अग्निं कुर्या-
दिति तावत्संज्ञयैव कर्मान्तरेऽवधारिते “अथातोऽग्निमग्निष्टोमेनानु-
यजन्ति यदग्निमनुयजन्ति तदग्निष्टोमेनेति” संस्थाविधिपरैर्वाक्यैर्याज-
नाग्न्यनुवादात्तावदग्निशब्दो यागवचन इति गम्यते । अस्य वाक्यस्य
संस्थाविधायकत्वाभावेऽपि “अग्निमनु अग्निष्टोमेन यजन्ती” त्युक्त्याग्ने-


१. मीमांसान्यायः ।

र्यागत्वमवगम्यते । यथा देवदत्तमनुगच्छति यज्ञदत्त इत्युक्ते देवदत्तोऽपि
गच्छतीति गम्यते । एवमिहाप्यनुयाजनवशादेवाग्नेर्यागत्वमवगम्यत इति ।
चयनम् अप्रमाणकमिति चेत्, अत्राभिधीयते—अग्निशब्दस्य वह्नौ
रूढत्वाद् यागवाचित्वं नोपपद्यते । न चात्र "चित्रया यजेत पशुकामः"
"आज्यैः स्तुवत" इत्यादाविव वाक्यभेदः । नापि "समिधो यजती"त्यादा-
विव तत्प्रख्यत्वम् । न वा "श्येनेनाभिचरन् यजेते"त्यादाविव तद्व्यप-
देशोऽस्ति येन नामत्वं स्यात् । तस्माज्ज्वलनरूपस्याग्नेरेव संस्कारो
विधीयते । तस्य च क्रतुसम्बन्धबोधकानि "अथातोऽग्नि"मित्यादीनि ।
न चाग्निष्टोमादीनाम् अग्निपश्चाद्भावमात्रप्रतीतेः कथं ततः संस्कार-
स्य क्रतुसम्बन्धसिद्धिरिति वाच्यम् ? प्रकरणात्, अग्निशब्दस्य चयन-
संस्कारविशिष्टाग्निपरतया तत्संबन्धे बोध्यमाने विशेष्यभूताग्निसम्बन्धस्य
यदाहवनीयवाक्येनैव सिद्धतया लोहितोष्णीषादिवद् विशेषणीभूतसंस्कार-
सम्बन्धविधिपरत्वस्यावश्यं भावात् । अत एवाग्निशब्दस्य द्रव्य-
वचनतयाऽनुशब्दस्य क्रियापश्चाद्भावप्रतिपादकस्यानुपपत्तिरित्यपास्तम् ।
उक्तरीत्याग्निशब्दस्य चयनपरत्वाग्निपरत्वे विशेषणीभूतचयनक्रियापेक्षया
पश्चाद्भावप्रतिपादकत्वोपपत्तेः । तदयमत्र "अथातोऽग्नि" मित्यादि-
वाक्यस्य निर्गलितोऽर्थः । चयननिर्वृत्तस्थण्डिलस्थापनसंस्कृतेऽग्नावग्निष्टोमा-
दिभिर्यजेतेति ।
न च तुल्यरूपाणामेव पौर्वापर्यंनियमः । पाकमनुभुङ्क्त इति विजा-
तीयानामपि तद्दर्शनात् । तस्मादस्त्यग्नेश्चयनलक्षणः संस्कारः क्रत्वङ्गभूत
इति तन्निरूपणप्रतिज्ञोपपन्नैवेति ।
नन्वेवमपीयं प्रतिज्ञाऽनुपपन्ना । यतो "अथेमे अग्निचया" इति
अग्निचयनप्रदर्शनं प्रतिज्ञाय चतुरस्रपरिमण्डलादिकरणमादावुच्यते । न
च चतुरस्रादीनामग्निचयनोपयोगितया नासंगतिरिति वाच्यम् ।
तस्य वेद्यादिसाधारणत्वेन वेद्या अपि प्रतिपादनस्यादौ प्रतिज्ञाप्रसङ्गात् ।
अग्निचयनस्य वेद्युत्तरमेव प्रतिपादनेन तत्प्रतिज्ञायाश्चैवोचितत्वा-

६ शुल्वसूत्रम् [ प्रथमो-
दिति चेन्न । इहाग्निप्रतिपादनस्यैव भूयस्तया प्राधान्यात्तदानुषङ्गिका-
नामन्येषामपि पूर्वं प्रतिपादनेऽपि न तेषामिह प्रतिज्ञा । यथा जैमिनिना
कृत्स्नवेदस्य धर्मे प्रामाण्येऽपि चोदनायाः प्राधान्यात् "चोदनालक्षणोऽर्थो
धर्म" इति निर्देशः कृतः ।
नन्वर्थवादादीनां सिद्धबोधकत्वेनाप्रामाण्यादेव चोदनाया एव
प्रामाण्यमुक्तम्, न तु प्राधान्यादिति चेन्न । “स्वाध्यायोऽध्येतव्य” इत्य-
ध्ययनविधेः कृत्स्नस्वाध्यायाध्ययनविधायिनः प्रयोजनवदर्थपरतामन्त-
रेणानुपपत्तेः । अर्थवादादीनामपि विधिवाक्यैकवाक्यतया धर्मप्रमितिजन-
कत्वेन प्रामाण्यस्यार्थवादाधिकरणे व्युत्पादितत्वात् । यथा वा प्रमाणादि-
षोडशपदार्थप्रतिपादकस्यापि शास्त्रस्यानुमानप्रधानत्वाद्वनुमानवाचकन्यायप-
देनैव न्यायशास्त्रमिति व्यपदेशः । यथा लोके मल्लप्रचुरे ग्रामे मल्लग्राम
इति व्यवहारः ॥ १ ॥
अथ शुल्बदीपिका
बौधायनीयशुल्वस्य प्रव्याख्याः प्रेक्ष्य यज्वना ।
टीका भट्टात्मजेनेयं क्रियते शुल्बदीपिका ॥
अथेति । अथ गृह्यानन्तरम् । अग्निचयग्रहणं वेद्या अप्युपलक्षणार्थम् ॥ १ ॥
तेषां भूमेः परिमाणविहारान् व्याख्यास्यामः ॥ २ ॥
तेषामिति । तेषामग्नीनाम् । भूमेः क्षेत्रस्य । परिमाणविहारान्
परिमाणानि विहाराश्च परिमाणविहारा इति इतरेतरयोगे द्वन्द्वः । परि-
माणशब्देन अङ्गुल-क्षुद्रपद-प्रादेशादीनां ग्रहणम् । विहारशब्देन भूमे-
श्चतुरस्रादिरूपेण करणस्य ग्रहणम् ॥ २ ॥
तेषामिति । परिमाणविशेषान् विहारान् । विहरणं नाम चतुरस्रादिरूपेण
भूमेः करणम् ॥ २ ॥
अथाङ्गुलप्रमाणं चतुर्दशाणवः ॥ ३ ॥
अङ्गुलस्य सर्वशेषित्वादौ तद्दर्शयति अथाङ्गुलेति । अणवो धान्य-
विशेषा अन्योन्यदीर्घाकारसंश्लिष्टाश्चतुर्दश अङ्गुलप्रमाणं अङ्गुल्याख्यं प्रमाणं
वेदितव्यम् ॥ ३ ॥

ऽध्यायः ] बौधायनीयं ७
अथेति । सर्वप्रमाणशेषत्वादङ्गुलप्रमाणमुच्यत इति शेषः । चतुर्दशेति । अणुर्धान्य-
विशेषः । परस्परसंश्लिष्टाश्चतुर्दशाणवो यावत्प्रमाणं तावदङ्गुलप्रमाणमित्यर्थः ॥ ३ ॥
चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम् ॥ ४ ॥
चतुस्त्रिंशदिति । कोशे यथावत् स्थितास्तथा संश्लिष्टा ( चतु-
स्त्रिशत् तिलाः ) अङ्गुलप्रमाणमित्यपरं मतमित्यर्थः ॥ ४ ॥
चतुस्त्रिंशदिति । कोशसंस्थानवत् पृथुप्रदेशेन संश्लिष्टाश्चतुस्त्रिंशत्तिला अङ्गुल-
प्रमाणमित्यपरं मतम् ॥ ४ ॥
दशाङ्गुलं क्षुद्रपदम् ॥ ५ ॥
दशाङ्गुलमिति । दशानामङ्गुलानां समाहारो दशाङ्गुलम् । पात्रादि-
त्वान्न ङीप् । ( दशाङ्गुलं ? ) “द्वादशप्रत्यञ्चि क्षुद्रपदानि ( बौ. श्रौ सू.
६।२२ ) इत्यादिषु ( दशाङ्गुलं ) क्षुद्रपदमिति वेदितव्यमित्यर्थः ॥ ५ ॥
दशेति । द्वादश प्रत्यञ्चि क्षुद्रपदानि ( बौ० श्रौ० सू० ६।२२ ) इत्येवमादिषु
दशाङ्गुलं क्षुद्रपदं विद्यात् ॥ ५ ॥
द्वादशः प्रादेशः ॥ ६ ॥
द्वादश इति । “तमवस्ताद् प्रादेशेन वर्धयेत्” ( बौ. शु. सू. ३।१० )
इत्यादिषु द्वादशाङ्गुलम् इति पूर्ववत्समाहारः । ( तत् ? ) प्रादेशमिति
वेदितव्यमित्यर्थः ॥ ६ ॥
द्वादशेति । तमवस्तात् प्रादेशेन वर्धयेत् ( बौ० शु० सू० ३।१० ।) इत्येव-
मादिषु द्वादशाङ्गुलः प्रादेश इति विद्यात् ॥ ६ ॥
पृथोत्तरयुगे त्र

८ शुल्बसूत्रम् [ प्रथमो-
पदं पञ्चदश ॥ ८ ॥
पदमिति । “त्रिंशत्पदानि पश्चात्” (बौ. शु. सू. १।६६)
इत्यादिषु पञ्चदशाङ्गुलानि पदमिति वेदितव्यम् ॥ ८ ॥
पदमिति । त्रिंशन् पदानि (बौ० शु० सू० १।६९) इत्यादिषु पञ्चदशाङ्गुल-
प्रमाणं पदं विद्यात् । क्षुद्रपदादीनां पदान्तानां क्रमविध्युपादानात् परस्पर-
संबन्धः ॥ ८ ॥
अष्टाशीतिशतमीषा ॥ ९ ॥
अष्टाशीतीति । “अन्तरेणेपे तिष्ठन् पलाशशाखां धारयन्” (बौ.
श्रौ. सू. ३०।४) इत्यादिषु अष्टाशीत्यधिकं शतमङ्गुलानि ईषेति
वेदितव्यम् ॥ ६ ॥
अष्टाशीतीति । रथसंमितेत्येकेषाम् (बौ० शु० सू० १।६१ सू०) इत्यादिषु
ईषाप्रमाणमष्टाशीतिशताङ्गुलप्रमाणं विद्यात् ॥ ९ ॥
चतुःशतमक्षः ॥ १० ॥
चतुःशतमिति । “रथाक्षान्तराला यूपावटा भवन्ति” (बौ. शु. सू.
१।७६) इत्यादिषु चतुरधिकशताङ्गुलानि (अक्ष इति वेदितव्यम् ?) ॥१०॥
चतुरिति । तत्रैव रथाक्षान्तराला यूपावटा भवन्ति (बौ० शु० सू० १।७९)
इत्येवमादिषु चतुरधिकशताङ्गुलमक्षप्रमाणं विद्यात् ॥ १० ॥
षडशीतिर्युगम् ॥ ११ ॥
षडशीतीति । “विपथयुगेन पुरस्तात्” (बौ. श्रौ. सू. २०।२५)
इत्यादिषु षडशीत्यङ्गुलं युगमिति विद्यात् ॥ ११ ॥
षडेति । तत्रैव षडधिकाशीतिप्रमाणं युगं विद्यात् । ईषादीनां रथावयवापेक्षया
संगतिः ॥ ११ ॥
द्वात्रिंशज्जानुः ॥ १२ ॥
द्वात्रिंशेति । “ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत्” (बौ.
शु. सू. २।६) इत्यादिषु द्वात्रिंशदङ्गुलानि जानुरिति विद्यात् ॥ १२ ॥
द्वात्रिंशेति । ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य (बौ० शु० सू० २।६)
इत्यादिषु द्वात्रिंशदङ्गुलप्रमाणं जानोः प्रमाणं भवति ॥ १२ ॥

प्रथमोध्यायः ] बौधायनीयं ९
षट्त्रिंशच्छम्याबाहू ॥ १३ ॥
षट्त्रिंशादिति । “शम्यामात्री चतुःस्रक्तिर्भवति” (बौ. शु. सू.
३।३) प्राञ्चं बाहुं मित्वा लोके न्यस्य गत्तं खानति” (बौ. श्रौ. सू. १)
इत्यादिषु । शम्या च बाहुरिति इतरेतरयोगे द्वन्द्वः। षट्त्रिंशदङ्गुलानि
शम्याबाहू वेदितव्याविति ॥ १३ ॥
षट्त्रिंशेति । “शम्यामात्री चतुःस्रक्तिर्भवति” (बौ० शु० सू०) “तस्माद्
बाहुमात्राः” खायन्ते (बौ० श्रौ० सू० ?) इत्यादिषु षट्त्रिंशदङ्गुलप्रमाणे शम्याबाहू
विद्यात् ॥ १३ ॥
द्विपदः प्रक्रमः ॥ १४ ॥
द्विपद इति । “प्राग्वंशः षोडशप्रक्रमायामः” (बौ. शु. सू. १।६८)
इत्यादिषु । द्वे पदे यस्य सः द्विपदः। द्वे पदे प्रक्रम इति वेदितव्य-
मित्यर्थः ॥ १४ ॥
द्विपद इति । प्राग्वंशः षोडशप्रक्रमायामः (बौ० शु० सू० १।६८) इत्यादिषु
प्रक्रमप्रमाणं द्विपदं विद्यात् ॥ १४ ॥
द्वौ प्रादेशावरत्निः ॥ १५ ॥
द्वौ प्रादेशाविति । “द्वावित्यरत्निना पक्षौ द्राघीयांसौ (बौ. श्रौ.
सू. १०।१६) इत्यादिषु द्वौ प्रादेशावरत्निरिति वेदितव्यम् ॥ १५ ॥
द्वाविति । उदक् सप्तविंशत्यरत्नयः (बौ० शु० सू० १।१३०) इत्यादिषु द्वौ
प्रादेशावरत्निरिति विद्यात् । एतेषामपि परस्परसम्बन्धोऽन्वेषणीयः ॥ १५ ॥
अथाप्युदाहरन्ति—पदे युगे प्रक्रमेऽरत्नावियति शम्यायाञ्च
मानार्थेषु याथाकामीति ॥ १६ ॥
अथाप्युदाहरन्तीति । एके आचार्याः मानार्थेषु चोदितेषु पदा-
दिषु याथाकामीति । प्रक्रमचोदनायां पदं, शम्याचोदनायामरत्नमित्यादि,
यथेच्छं गृह्णीयादिति । सर्वप्रमाणेषु विकल्पो द्रष्टव्य इति ।
यद्वा पदादिप्रमाणे बहुविधानि शास्त्राणि दृश्यन्ते । द्विपदः प्रक्रम
.इति अस्मदाचार्याः । द्विपदस्त्रिपदो वा प्रक्रम इत्यापस्तम्बाचार्याः ।
२

तत्र "प्राग्वंशः षोडशप्रक्रमायाम" (बौ. शु. सू.) इत्यत्र द्विपदस्त्रिपदो वा
प्रक्रमो ग्राह्यः । एवं पदादिषु । तथा च प्रक्रमादिशब्दार्थानामेव मिथो
विकल्प इत्यर्थः ॥ १६ ॥
अथेति । पक्षान्तरमिदम् । अत्र कात्यायनः "द्वादशाङ्गुलं पदं चत्वारोऽष्टकाः
शम्येति" च (का० शु०)। आपस्तम्बः "प्रक्रमो द्विपदस्त्रिपदो वेति" (आप० शु०) ।
पदादिषु मानार्थेषु चोदितेषु लोकसिद्धैः शाखान्तरोक्तैश्च विकल्पन्ते । तत्रापस्तम्बः
"यजमानस्याध्वर्योर्वेष हि चेष्टानां कर्त्ता भवति" इति ॥ १६ ॥
पञ्चारत्निः पुरुषः ॥ १७ ॥
पञ्चारत्निः पुरुष इति । पञ्च अरत्नयो यस्य सः पञ्चारत्निः पुरुष
इत्यर्थः । "पुरुषमात्रेण वेणुना विमिमीत" (बौ. श्रौ. सू. १०।१९ )
इत्यादिषु पञ्चारत्निः प्रमाणं पुरुष इति वेदितव्यम् ॥ १७ ॥
पञ्चेति । "पुरुषमात्रेण विमिमीते" इत्यादिषु पञ्चारत्निं पुरुषं विद्यात् ॥ १७ ॥
व्यामश्च ॥ १८ ॥
व्यामेति । "व्याममात्रौ पक्षौ" (बौ. शु. सू. २।२०) इत्यादिषु
पञ्चारत्निप्रमाणो व्याम इति वेदितव्यम् ॥ १८ ॥
व्यामेति । व्याममात्रौ पक्षौ (बौ० शु० सू० २।२०) इत्यादिषु व्यामश्च
पञ्चारत्निः ॥ १८ ॥
चतुररत्निर्व्यायामः ॥ १९ ॥
चतुररत्निरिति । चत्वारोऽरत्नयो यस्य सः । "व्यायाममात्री भवती
ति गार्हपत्यचितेर्विज्ञायते" (बौ. शु. सू. २।६०) इत्यादिषु चतुररत्नि-
प्रमाणो व्यायाम इति वेदितव्यम् ॥ १९ ॥
चतुरिति । "व्यायाममात्री भवतीति गार्हपत्यचितेः" (बौ० शु० सू० २।६०)
इत्यादिषु चतुररत्निव्यायामः ॥ १९ ॥
[ इति रेखामानपरिभाषा ]
चतुरश्रं चिकीर्षन् यावच्चिकीर्षेत् तावतीं रज्जुमुभयतःपाशां
कृत्वा मध्ये लक्षणं करोति ॥ २० ॥
अग्न्याहवनीयादिकरणोपयुक्तत्वेन प्रथमं चतुरस्रकरणप्रकारमाह—

ऽध्यायः ] बौधायनीयं १२
चतुरश्रमिति । चतुरस्रं चिकीर्षन् यावच्चिकीर्षेत् यावत् प्रमाणं
चतुरस्रं कर्तुमिच्छेत् तावतीं रज्जुमभिलषितसमचतुरस्रस्य पार्श्वकरणा
समामेकां रज्जुं संपाद्य तामुभयतःपाशां शङ्कादिप्रवेशानुकूल-
ग्रन्थिद्वययुक्तां कृत्वा, ग्रन्थ्योरन्तरालम् उक्तप्रमाणं यथा भवति तथा
कृत्वेत्यर्थः । तस्या रज्जोर्मध्ये लक्षणं चिह्नं करोतीत्यर्थः ॥ २० ॥
चतुरश्रमिति । प्राचीज्ञानोपायाः कर्मान्त उक्ताः । “कृत्तिकाः खल्विमाः प्राचीं
दिशं न परिजहति । तासां संदर्शनेन मापयेदित्येतदेकं, श्रोणासंदर्शनेन मापयेदि-
त्येतदेकं, चित्रास्वात्योरन्तरालेन मापयेदित्येतदपरमिति ( बौ० श्रौ० सू० कर्मान्त०
२५।५ पृ० २३३ पं० ३) । एतानि लक्षणानि देशविशेषेषु व्यवतिष्ठन्ते । सर्वदेश-
साधारणं कात्यायन आह—“समे शङ्कुं निखाय शङ्कुसम्मितया रज्ज्वा मण्डलं
परिलिख्य यत्र लेखयोः शङ्कग्रच्छाया निपतति सा प्राचीति” । लेखयोरिति
मण्डललेखयोरित्यर्थः ।
षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छ्रितम् ।
जठरं चाव्रणं चैव शङ्कुं कुर्याद् विशेषतः ॥
एकतः क्षुण्णहृत्सुस्तीक्ष्णः खादिरः सम आयतः ।
शङ्कुः समशिराः कार्यस्तस्यार्धं गमयेन्महीम् ॥
इति शङ्कुलक्षणम् ॥ २० ॥
लेखामालिख्य तस्या मध्ये शङ्कुं निहन्यात् । तस्मिन् पाशौ
प्रतिमुच्य लक्षणेन मण्डलं परिलिखेत् । विष्कम्भान्तयोः शङ्कू
निहन्यात् ॥ २१ ॥
लेखामिति । तां रज्जुं प्राक् प्रत्यक् दीर्घां निधाय अनुरज्जु रेखा-
मालिखेत् । तस्या मध्यवित्तप्रदेशे एकं शङ्कुं निहन्यात् । तस्मिन् शङ्कौ
पाशौ प्रतिमुच्य ग्रन्थ्यन्तरालद्वयं शङ्कौ प्रवेश्य लक्षणेन चिह्नेन मण्डलं
परिलिखेत् । विष्कम्भान्तयोः शङ्कू निहन्यात् दीर्घरेखा-मण्डलरेखयोः
सन्ध्योः शङ्कुद्वयं निहन्यात् ॥ २१ ॥
विष्कम्भेति । पूर्वापरीभूता लेखा विष्कम्भः । तस्या मण्डलसंगमो विष्क-
म्भान्तः ॥ २१ ॥

१२ शुल्बसूत्रम् [ प्रथमो-
पूर्वस्मिन् पाशं प्रतिमुच्य पाशेन मण्डलं परिलिखेदेवमपर-
स्मिन् । ते यत्र समेयातां तेन द्वितीयं विष्कम्भमायच्छेत् ।
विष्कम्भान्तयोः शङ्कू निहन्यात् ॥ २२ ॥
पूर्वस्मिन्निति । पूर्वस्मिन् प्राच्ये शङ्कौ पाशमेकं प्रतिमुच्य पाशेन मण्डलं
परिलिखेत् । एवमिति । एवमपरस्मिन् शङ्कावपि मण्डलं परिलिखेत् ।
ते मण्डले यत्र समेयातां संयुज्येते तेन सन्धिना द्वितीयं विष्कम्भमायच्छेत्
कुर्यात् । विष्कम्भान्तयोरिति । विष्कम्भान्तयोर्दक्षिणोत्तरपार्श्वयोः
शङ्कुद्वयं निहन्यात् । आहत्य पञ्च शङ्कवो निखाताः ॥ २२ ॥
अथ दक्षिणोत्तरदिग्ज्ञानार्थमाह । पूर्वस्मिन्निति । पाशो रज्ज्यन्तः प्रति-
मोचनसमर्थः । तेन द्वितीयमिति । मत्स्यमुखपुच्छानुसारेण लेखां कुर्यादित्यर्थः ।
विष्कम्भान्तयोरिति । दक्षिणोत्तरलेखायाः प्रथममण्डलस्य च संगमो विष्क-
म्भान्तः ॥ २२ ॥
पूर्वस्मिन् पाशौ प्रतिमुच्य लक्षणेन मण्डलं परिलिखेदेवं
दक्षिणत एवं पश्चादेवमुत्तरतस्तेषां येऽन्त्याः संसर्गास्तच्चतुरश्रं
संपद्यते ॥ २३ ॥
पूर्वस्मिन्निति । तेषु पूर्वस्मिन् शङ्कौ पाशौ प्रतिमुच्य लक्षणेन
चिह्नेन मण्डलं परिलिखेत् ।
एवमिति । एवं दक्षिणे प्रतीच्ये उत्तरे शङ्कौ पाशं प्रतिमुच्येत् ।
चिह्नेन मण्डलानि परिलिखेत् । तेषां मण्डलानां येऽन्त्याः संसर्गाः
अवान्तरदिक्षु संयोगाः तेष्वपि शङ्कून् निहन्यात् । तेषामष्टानां शङ्कूनां
मध्यप्रदेशश्चतुरश्रक्षेत्रं सम्पद्यत इत्यर्थः ॥ २३ ॥
अथ कोणदिक्परिज्ञानोपायार्थमाह । पूर्वस्मिन्निति । इत उत्तरं मध्यममण्ड-
लचिह्नानि लक्षीकृत्योच्यते । एवमिति । तेषामिति । अन्त्या इति अवान्तरदिक्षु ॥२३॥
अथापरम्—प्रमाणाद् द्विगुणां रज्जुमुभयतःपाशां कृत्वा
मध्ये लक्षणं करोति स प्राच्यर्थः ॥ २४ ॥
समचतुरश्रकरणे प्रकारान्तरमाह—अथापरमिति । करणमिति

ऽध्यायः ] बौधायनीयं १३
शेषः । प्रमाणादिति । अभिमतचतुरश्रस्य पार्श्वमानीप्रमाणकात् द्वाद-
शाङ्गुलादिकात् द्विगुणांश्चतुर्विंशत्यङ्गुलायतां रज्जुमुभयतःपाशां कृत्वा
द्वादशाङ्गुले लक्षणं चिह्नं करोति । स इति । स रज्जुखण्डः प्राच्यर्थः
प्राक्पार्श्वमानी परिज्ञानार्थः ॥ २४ ॥
उपायान्तरमाह । अथापरमिति । करणमिति शेषः । प्रमाणादिति । द्वादशाङ्गुल-
प्रमाणां द्विगुणां चतुर्विंशत्यङ्गुलप्रमाणां रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं
करोति । प्राच्यर्थ इति । प्राच्यर्थः पार्श्वमानीपरिज्ञानार्थः खण्डः ॥ २४ ॥
अपरस्मिन्नर्धे चतुर्भागोने लक्षणं करोति तन्न्यञ्छनम् ॥ २५ ॥
अपरस्मिन्निति । पूर्वकृतलक्षणसमीपे चतुर्भागेन अङ्गुलेन ऊने
लक्षणं करोति । आदित आरभ्य पञ्चदशाङ्गुले चिह्नं करोतीति यावत् ।
तन्न्यञ्छनमिति । तिर्यक्-दीर्घपरिज्ञानोपायः ॥ २५ ॥
अपरस्मिन्निति । उपरिक्षिसद्वादशाङ्गुले अर्धचतुर्भागोने त्र्यङ्गुलेऽतीते आदित
आरभ्य पञ्चदशाङ्गुल इति यावत् । न्यञ्छनमिति । अपसारकम् ॥ २५ ॥
अर्धेऽसार्थम् ॥ २६ ॥
अर्धेऽसार्थमिति । अपरस्य द्वादशाङ्गुलस्यार्धे षडङ्गुले आदित
आरभ्याष्टादशाङ्गुल इति यावत् । अंसार्थं चिह्नं करोति । अंसग्रहणं
श्रोण्योरप्युपलक्षणम् ॥ २६ ॥
अर्धइति । आदितोऽष्टादशाङ्गुलेऽसार्थम् ॥ २६ ॥
पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापायम्यार्धेन
श्रोण्यंसांन्निहरेत् ॥ २७ ॥
एवं चिह्नकरणमप्युक्त्वा विहरणप्रकारमाह—पृष्ठ्यान्तयोरिति ।
पृष्ठ्यान्तयोः अभिमतचतुरश्रमध्यप्रदेशपूर्वापरान्तयोः शङ्कूं निहत्य तत्र
पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापायम्य न्यञ्छनं गृहीत्वा दक्षिणतो
विकृष्य अर्धेन श्रोण्यंसांन्निहरेत् । षडङ्गुलेन कृतेन चिह्नेन श्रोण्यौ च

१४ शुल्वसूत्रम् [ प्रथमो-
अंसौ च कुर्यात् । यथा दक्षिणश्रोण्यंसौ कुर्यात् एवमुत्तरापायमनेन
उत्तरौ श्रौण्यंसौ कुर्यात् । तथा च श्रोणीद्वयमंसद्वयं च कृत्वा समचतुरस्रं
कुर्यादिति समचतुरस्रकरणे प्रकारद्वयम् ॥ २७ ॥
पृष्ठ्येति । अभीष्टक्षेत्रायामसंमिता सर्वमानेपृष्ठयतःपाशा प्राची । पूर्वापरयोः
शङ्कोर्निहिता भवति । सैव मध्ये भवतीति पृष्ठ्या । संप्रसार्य षडङ्गुलेन श्रोण्यंसान्नि-
र्हरेत् कुर्यात् । एतत्करणद्वयं समचतुरस्रविषयम् ॥ २७ ॥
[ इति समचतुरश्रकरणोपायः । ]
दीर्घचतुरश्रं चिकीर्षन् यावच्चिकीर्षेत् तावत्यां भूमौ द्वौ
शङ्कू निहन्यात् । द्वौ द्वावेकैकमभितः समौ ॥ २८ ॥
दीर्घचतुरश्रमिति । अभिलषितदीर्घचतुरश्रायां भूम्यां प्राक्पश्चि-
मान्तयोः शङ्कुद्वयं निहन्यात् । द्वौ द्वाविति । प्राङ् निखातस्य शङ्कु-
द्वयस्य प्राग्भागपश्चिमभागेषु समान्तरालौ द्वौ द्वौ । एकैकमभित
इति । प्रत्येकैकस्य शङ्कोः पार्श्वद्वये शङ्कुद्वयं निहन्यात् । "अभितः
परितः समया निकषा हा प्रति योगेष्वि"ति षष्ठ्यर्थे द्वितीया । आहत्य
पृष्ठ्यान्तयोः प्रत्येकं शङ्कुत्रयं निखातं भवति ॥ २८ ॥
भूमाविति । अभीष्टक्षेत्रायामपृष्ठ्यान्तयोः । अभित इति । अभितः पश्चात्
पुरस्ताच्च समान्तरालौ ॥ २८ ॥
यावती तिर्यङ्‌मानी तावतीं रज्जुमुभयतःपाशां कृत्वा
मध्ये लक्षणं करोति । पूर्वेषामन्त्ययोः पाशौ प्रतिमुच्य लक्षणेन
दक्षिणापायम्य लक्षणे लक्षणं करोति ॥ २९ ॥
यावतीति । अभिलषितदीर्घचतुरश्रस्य दक्षिणोत्तरयोः पार्श्वयो-
र्मानहेतुरज्जुर्यावती द्वादशाङ्गुलाद्यात्मिका तावतीमुभयतःपाशां
कृत्वा मध्ये लक्षणं करोति । पूर्वेषामिति । पूर्वेषां प्राच्यानां
शङ्कूनां मध्ये अन्त्ययोः प्राक्पश्चात् स्थितयोः शङ्कोः पाशौ प्रतिमुच्य

ऽध्यायः ] बौधायनीयं १५
लक्षणेन दक्षिणापायम्य लक्षणं गृहीत्वा दक्षिणभागे विकृष्य लक्षणे लक्षण-
सङ्गतप्रदेशे लक्षणं करोति चिह्नं करोति ॥ २९ ॥
पूर्वैषामिति । पृष्ठ्यान्त्ययोस्त्रयस्त्रयः शङ्कवः । अन्त्ययोः त्रयाणां पाश्चात्यपौ-
रस्त्ययोः ॥ २९ ॥
मध्यमे पाशौ प्रतिमुच्य लक्षणस्योपरिष्टाद् दक्षिणापायम्य
लक्षणे शङ्कुं निहन्यात् । सोऽंसः । एतेनोत्तरोऽंसो व्याख्यात-
स्तथा श्रोणी ॥ ३० ॥
मध्यम इति । अथ तेषामेव मध्यमे शङ्कौ पाशौ प्रतिमुच्य लक्षणस्य
पूर्वकृतस्योपरिष्टाद् दक्षिणापायम्य लक्षणसङ्गतप्रदेशे शङ्कुं निहन्यात् ।
सोऽंस इति । एवं चिह्नतो दक्षिणोंऽसो भवति । एतेनेति । एतेनोत्तरा-
पायम्य उत्तरमंसं कुर्यात् । तथेति । तथा श्रोणी पाश्चात्येषु उक्तरीत्या
श्रोणीद्वयं कुर्यादित्यर्थः ॥ ३० ॥
मध्यम इति । उपरिष्टात् समीपेन ॥ ३० ॥
[ इति दीर्घचतुरश्रकरणोपायः । ]
यत्र पुरस्तादंहीयसीं मिनुयात् तत्र तदर्धे लक्षणं
करोति ॥ ३१ ॥
एकतोऽणिमद्दीर्घचतुरश्रप्रकारमाह—यत्रेति । पुरस्तात् प्राग्भागे
अंहीयसीं अल्पीयसीमित्यतः पश्चाद् भागे बृहतीं भूमिं
मिनुयात् । तत्र तदर्धे अणिमत्प्रदेशतिर्यङ्मान्या मध्ये लक्षणं करोति ।
शेषं पूर्ववत् । तथाच अंसार्थमेका रज्जुः, श्रोण्यर्थमपरा रज्जुरिति
रज्जुद्वयं भवति ॥ ३१ ॥
यत्रेति । यत्र अंहीयसीमेकतोऽणिमत् चिकीर्षति । तदर्धे चिकीर्षिताणिमत्
तिर्यङ्मान्यर्धे ॥ ३१ ॥
[ इति एकतोऽणिमद्दीर्घचतुरश्रकरणोपायः । ]
अथापरम्—प्रमाणादध्यर्धां रज्जुमुभयतःपाशां कृत्वा-
परस्मिंस्तृतीये षड्भागोने लक्षणं करोति तन्न्यञ्च्छनमिष्टें-
ऽसार्थम् ॥ ३२ ॥

१६ शुल्बसूत्रम् [ प्रथमो-
दीर्घचतुरस्रकरणे एकतोऽणिमद्दीर्घचतुरस्रकरणे च प्रकारान्तरमाह—
अथापरमिति । प्रमाणादिति । प्रमाणादभिलषितात् अपरस्मिन्
अधिकतया संयोजिते तृतीयांशे षष्ठेन एकाङ्गुलेन ऊने आदित आरभ्य
त्रयोदशाङ्गुल इति यावत् लक्षणं करोति ।
तन्न्यञ्छनमिति । अपसारकम् । इष्ट इति । इष्टे अभिलषित-
प्रदेशे । अंसार्थमिति उपलक्षणम् । स श्रोण्यर्थे अपि ॥ ३२ ॥
प्रमाणादिति । द्वादशाङ्गुले षडङ्गुलं प्रक्षिप्य पञ्चाङ्गुले लक्षणम् । न्यञ्छनमिति ।
अपसारकम् ॥ ३२ ॥
पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापायम्ये-
ष्टेन श्रोण्यंसान्निहरेत् ॥ ३३ ॥
पृष्ठ्यान्तयोरिति । निर्हरेदिति । उत्पादयेत् । अत्र च द्वादशा-

ऽध्यायः ] बौधायनीयं १७
प्रमाणं तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुस्त्रिकरणी ॥३५॥
अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणमभिमतद्वादशाङ्गुलं
तिर्यङ्‌मानीं कृत्वा पूर्वोक्तां द्विकरणीं रज्जुं पार्श्वमानीं कृत्वा यद्दीर्घ-
चतुरस्रं भवति तस्याक्षणया रज्जुः पार्श्वमानी तिर्यङ्‌मानी च यदि
भवेत् सा त्रिकरणी । पूर्वोक्तप्रमाणक्षेत्राद् द्वादशाङ्गुलात् त्रिगुण-
समचतुरस्रं क्षेत्रं करोति ॥ ३५ ॥
अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणं द्वादशाङ्गुलं तिर्यक् । तस्य द्विकरणी
तिलोनसप्तदशाङ्गुला पार्श्वमानी । एवं भूतस्य दीर्घचतुरस्रस्याक्षणयारज्जु विंशति-
रङ्गुलयः सप्तविंशतिः तिलाश्च । सा त्रिकरणी प्रमाणविमितक्षेत्रत्रिगुणं क्षेत्रं
करोति ॥ ३५ ॥
तृतीयकरण्येतेन व्याख्याता । नवमस्तु भूमेर्भागो भवतीति ॥३६॥
प्रमाणक्षेत्रस्य गुणवृद्धिमुक्त्वा उक्तन्यायेन ह्रासेन तृतीयांशकरणमाह—
तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा
विभज्य एकस्य भागस्य या करणी सा तिर्यङ्‌मानी, तस्य द्विकरणीं
पार्श्वमानीं कृत्वा तस्याक्षणयारज्जुस्तृतीयकरणी भवति । प्रमाणक्षेत्राद्
अंशद्वयहीनं तृतीयमंशं क्षेत्रं करोतीत्यर्थः ॥ ३६ ॥
तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा विभज्य
एकभागस्य करणी तिर्यङ्‌मानी तद्द्विकरणी पार्श्वमानी । तस्याक्षणयारज्जुः तृतीय-
करणी । प्रमाणपरिमितात् क्षेत्रात् तृतीयं क्षेत्रं करोति । एषा फलकरणा-
स्तृतीयभागा । अनेन सूत्रेणेदमपि सूचितं भवति—
१. प्रमाणं तिर्यक् त्रिकरण्यायामस्तस्याक्षणयारज्जुश्चतुष्करणी ।
२. प्रमाणानि त्रीणि तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुरेकादशकरणी ।
एकादशभेदकरण्येतेन व्याख्याता । विभागास्तु एकविंशाधिकशतधेत्यर्थः ॥ ३६ ॥
[ इति त्रिकरणीतृतीयकरण्योरानयनम् । ]
दीर्घचतुरश्रस्याक्षणयारज्जुः पार्श्वमानी तिर्यङ्‌मानी च यत्-
पृथग्भूते कुरुतस्तदुभयं करोति ॥ ३७ ॥
दीर्घचतुरस्रेति । दीर्घचतुरस्रस्य पार्श्वमान्या सर्वतो मित्वा यत्
३

१८ शुल्बसूत्रम् [ प्रथमो-
क्षेत्रं तस्य तिर्यङ्मान्या च सर्वतो मित्वा यत् क्षेत्रं तदुभयं दीर्घचतुर-
श्रस्याक्ष्णयारज्जुः ( क्षिप्त्वा तदुभयं ? ) करोतीत्यर्थः ॥ ३७ ॥
दीर्घचतुरश्र इति । दीर्घचतुरस्रपार्श्वमान्या समचतुरस्रे कृते यत् क्षेत्रं संपद्यते,
यच्च तिर्यङ्मान्या, तदुभयमक्ष्णयारज्ज्वा समचतुरस्रे कृते संपद्यते ।
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुरित्युदाहरणम् । तासां त्रिकरणेऽप्ययमेव
प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ३७ ॥
तासां त्रिकचतुष्कयोर्द्वादशिकपञ्चिकयोः पञ्चदशिकाष्टकयोः
सप्तिक चतुर्विंशिकयोर्द्वादशिकपञ्चत्रिंशिकयोः पञ्चदशिकषट्-
त्रिंशिकयोरित्येतासूपलब्धिः ॥ ३८ ॥
तत्रोदाहरणमाह—तासामिति । त्र्यरत्न्यादिप्रमाणया तिर्यङ्मान्या
चतुररत्न्यादिप्रमाणया पार्श्वमान्या यद्दीर्घचतुरश्रं क्रियते तस्याक्ष्णया-
रज्ज्वा सर्वतोमान्या मितं क्षेत्रं प्रत्येकं तिर्यङ्मान्या पार्श्वमान्या च
सर्वतोमान्या यत् द्विविधं क्षेत्रं, तदुभयात्मकं क्षेत्रं भवति । तथा
हि अनया तिर्यङ्मान्या कृतं नवप्रमाणं क्षेत्रं भवति, पार्श्वमान्या
च षोडशप्रमाणम् । उभयं मिलितं पञ्चविंशतिप्रमाणं क्षेत्रम्, अक्ष्णया-
रज्जुरपि तत्प्रमाणा भवति, तथा च सर्वतोमानेन पञ्चविंशतिप्रमाणं
क्षेत्रम् । तथा च त्रिक-चतुष्कयोः प्रमाणयोस्तिर्यङ्मान-पार्श्वमान्योः
सत्योरित्यर्थः । एवं द्वादशिक-पञ्चिकयोरित्यादावपि । तासामक्ष्णया-
रज्जूनामुभयविधक्षेत्रकरणीनामुपलब्धिः अवगतिर्भवतीति । कुत्रेत्याकांक्षा-
याम् उक्तं त्रिकचतुष्कयोरित्यादि । त्रिक-चतुष्कस्थलेऽक्ष्णयारज्जुः
पञ्चिका भवति । द्वादशिक-पञ्चिकयोरुभयविधं क्षेत्रम् एकोनसप्तत्यधिक-
शत (१६९) प्रमाणकं क्षेत्रं, तस्याक्ष्णयारज्जुस्त्रयोदशिका त्रयोदशप्रमाणा
भवति । सा च सर्वतः क्षिप्त्वा एकोनसप्तत्यधिकशत (१६९) प्रमाणकं
क्षेत्रमेव करोति । एवं तृतीयोदाहरणे पञ्चदशिका पार्श्वमानी, अष्टिका
तिर्यङ्मानी, ताभ्यां च प्रत्येकम् एकोननवत्यधिकद्विशत ( २८९ ) प्रमाणं
क्षेत्रं, तत्राक्ष्णयारज्जुः सप्तदशिका भवति । एवं चतुर्थोदाहरणे सप्तिका
तिर्यङ्मानी चतुर्विंशिका पार्श्वमानी, तदुभयक्षेत्रं पञ्चविंशत्यधिकषट्-

शतानि (६२५) । तत्राक्ष्णयारज्जुः पञ्चविंशतिका तत्क्षेत्रं करोति । एवं
पञ्चमोदाहरणे द्वादशिका तिर्यङ्मानी पञ्चत्रिंशिका पार्श्वमानी । तदुभयं
क्षेत्रं सहस्रं त्रीणि शतानि एकोनसप्तति(१३६६)श्च भवति । तत्राक्ष्णयारज्जुः
सप्तत्रिंशिका । एवं षष्ठोदाहरणे पञ्चदशिका तिर्यङ्मानी षट्त्रिंशिका पार्श्वमानी
तदुभयं क्षेत्रं सहस्रं पञ्चशतानि एकविंशतिः (१५२१) । तत्राक्ष्णयारज्जुःएको-
नचत्वारिंशतिका तत्क्षेत्रं करोतीत्याद्युदाहरणैः स्पष्टीकृतमाचार्यैः ॥ ३८ ॥
तासामिति । प्रमाणं तिर्यग् ( बौ० शु० सू० १।३५ ) इत्येवमादिना अवगता-
नामक्ष्णयारज्जूनां त्रिकचतुष्कयोरित्यादिषु दीर्घचतुरस्रकरणीषूपलब्धिः अवगतिः ।
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । पञ्चदशिकषट्त्रिंशिकयोरेकोनचत्वारिंशिका-
क्ष्णयारज्जुरित्यादि ।
एवं तासां द्वयोर्ज्ञातयोस्तृतीया ज्ञातुं शक्यते । यथा पार्श्वमानीतिर्यङ्मान्यो-
र्ज्ञातयोः पृथग् वर्गयित्वा संयोज्य वर्गमूलं अक्ष्णयारज्जुः । तथा पार्श्वमान्यक्ष्ण-
यारज्ज्वोर्ज्ञातयोरक्ष्णयारज्जुवर्गात् पार्श्वमानीवर्गं विशोध्य शिष्टस्य मूलं तिर्यङ्मानी ।
एवं तिर्यङ्मानीवर्गं विशोध्य पार्श्वमानी । एवं सर्वत्र द्रष्टव्यम् ॥ ३८ ॥
[ इत्यन्यासाविष्टकरणीनामानयनम् । ]
नाना चतुरश्रे समस्यन् कनीयसः करण्या वर्षीयसो
वृध्रमुल्लिखेद् वृध्रस्याक्ष्णयारज्जुः समस्तयोः पार्श्वमानी-
भवति ॥ ३९ ॥
नानाप्रमाणकचतुरश्रयोः संयोजनप्रकारमाह—नानाचतुरश्र इति ।
नानाप्रमाणके चतुरश्रके द्वे समस्यन् संयोजयन् कनीयस अन-
योर्मध्ये अल्पप्रमाणकस्य चतुरश्रस्य करण्या रज्ज्वा वर्षीयस अधिक-
प्रमाणस्य चतुरश्रस्य तदवधिकमंशमुल्लिखेत् । अल्पप्रमाणकरणीं तिर्यङ्-
मानीं कृत्वा वर्षीयसः करणीं पार्श्वमानीं कृत्वा दीर्घचतुरस्रमुल्लिखे-
दित्यर्थः । वृध्रस्य एवं कृतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुः समस्तयोर्भवति,
सर्वंतो मानं भवति, तया सर्वंतो मित्वा समचतुरश्रे कृते तयोरुभयोः
क्षेत्रं संपद्यत इत्यर्थः ॥ ३९ ॥
नानेति । नानाकारे समचतुरस्रे समस्यन् ह्रसीयसः करणीं तिर्यङ्‌मानीं कृत्वा
वर्षीयसः संबन्धिनं सकलमुल्लिखेत् । वर्षीयसः करण्येव पार्श्वमानी । एवं कृतस्य