सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 77, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 77

ऽध्यायः ] बोधायनीयं ४७

यम्। षड्विधस्तु अपक्षपुच्छ इति तस्य प्राथमिकत्वेऽपि न प्राथमिकोक्ति
विरोधः। न च षड्विधस्यापि सपक्षपुच्छत्वमुक्तमिति वाच्यम्।
तस्य हि सपक्षपुच्छत्वं सूत्रे सपक्षपुच्छमानमुपक्रम्य षड्विधादेरनुक्रमेण
न (च ?) सौत्रासिधधर्मोपदेशं साधारणं कल्पयित्वोच्यते ? उत तैत्तिरीया-
दिशाखागतं “व्याममात्रौ पक्षौ पुच्छं च भवती”त्यादिधर्मोपदेशं
साधारणं कल्पयित्वोच्यते ? नाद्यः, द्वादशविधस्येव विकृतिभूतस्यापि
षड्विधस्य मध्येऽनुक्रमणोपपत्त्या धर्मोपदेशसाधारण्यकल्पनायां प्रमाणा-
भावात्। न द्वितीयः। तैत्तिरीयशाखादिगतधर्मोपदेशस्य सप्तविधश्येन-
विषयत्वेन सर्वैर्वेदवादिभिरभ्युपेततया तत्साधारण्यकल्पनासम्भवात्।
उक्तं चापस्तम्बाचार्यैः—"एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति,
सप्तविधवाक्यशेषत्वा"दिति¹।
नन्वेवमपि षड्विधस्य सविकृतितयाऽतिदेशतरधर्मवत्पक्षपुच्छं प्राप्नो-
तीति चेन्न, प्रउग-कूर्मादाविव पक्षाद्यप्राप्तिसंभवात्। न च तत्र वाच-
निकप्रउग-कूर्माकारबाधापत्त्या पक्षाद्यप्राप्तिः स्यादिति वाच्यम्। “एक
विधप्रभृतीन् समचतुरश्रानेक आचार्या" इत्यनेन समचतुरश्राकारस्य
विहिततया तद्बाधापत्त्या पक्षाद्यप्राप्तिसंभवात्, न चासप्तविधस्य पक्षपुच्छानि
विद्यत इति वचनेन पक्षादिबाधाच्च।
ननूक्तरीत्या प्राथमिकविरोधाभावेऽपि षड्विधस्य विकृतितया प्रथम-
तरमनुष्ठानासम्भवेन द्वितीयादिभावस्य वक्तव्यतया “न ज्यायांस”मिति
निषेधश्रुतिविरोधः पूर्वोक्त आपतेदिति चेन्न, नहि तस्य द्वितीयादिभावोऽङ्गी-
क्रियते येन विरोधः स्यात्। किन्तु विहितस्य षड्विधादेः “न ज्यायांस”मिति
निषेधश्रुतिविरोधः पूर्वोक्त आपतेदित्यनेन द्वितीयादिभावे निषिद्धे अनन्य-
गत्या विकृतिभूतस्यापि पवमानेष्ट्यादिवत् प्रथममनुष्ठानम्। तथाच न कोऽपि
विरोधः। न च षड्विधादेरपक्षपुच्छतया “न ज्यायांस”मिति निषेधस्य च
सपक्षपुच्छविषयतया द्वितीयादिभावेऽपि न विरोध इति अनन्यगतिकत्वा-


१. आप. शु. सू. ८मः खण्डः।