सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 210, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 210

चित्रप्रतिरूपनिर्माणविषये सम्पादकीयं न्यूनताक्षमापनम्
चित्रप्रतिरूपाणां निर्माणकार्यस्य यथार्थपरिदर्शनानभिज्ञस्य मम सम्पाद-
कत्वेऽत्र मुद्रितेषु चित्रेषु बह्व्यस्त्रुटयः समापतिताः सन्ति, तदर्थं क्षन्तव्योऽहं
सहृदयैः पाठकैः ।
१. आदितो द्विचत्वारिंशत्संख्यकेषु चित्रेषु आकृतिबाहुल्यमस्पष्टता च वर्तते ।
२. चितीनां चित्रेषु बहुत्र पुरुषमानप्रदर्शकलेखाया अनिर्देशात् क्षेत्रमानं
दुर्ज्ञेयं जातम् ।
३. इष्टकाकरणेषु संख्याङ्कानिर्देशात् चित्राधोलिखितानां संख्याज्ञानेऽपि
स्वरूपं दुर्ज्ञेयमेव जातम् ।
४. कदाचित् चितीनां चित्रेषु इष्टकरीतिज्ञापिकानां लेखानां दोषाद् रीतिषु
यथार्था इष्टकसंख्या दुर्ज्ञेया जाता ।
निर्मितेषु चित्रप्रतिरूपेषु एतासां त्रुटीनां प्रतीकारोऽपि न सम्भाव्यत इति
नितरां दुःखितचित्तोऽहं क्षमां याचे ।
विदुषां कृपामिलाषी
सम्पादकः