बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 198, कुल 366 में से
संदर्भ में पढ़ें१६६ शुल्बसूत्रम् [तृतीयो-
इति श्रीमद्वैतविद्याचार्यसाग्निचित्य सर्वतोमुखातिरात्रसाग्निचि-
त्याप्तवाजपेययाजिगोविन्ददीक्षितवरनन्दनस्य सर्वतन्त्रस्वतन्त्रसाग्निचित्य
सर्वपृष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य तच्छिष्यतालब्धसमस्त-
विद्यावैशद्यस्य साग्निचित्याप्तवाजपेययाजि श्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु
बोधायनशुल्बमीमासायां तृतीयोऽध्यायः ।
॥ इति बोधायनशुल्बसूत्रस्य व्याख्या शुल्बमीमांसा समाप्ता ॥
अस्मिन्नर्थे ब्राह्मणमुदाहरति—त्रिस्ताव इति । उभयं विधिवाक्यमेवेत्यर्थः ।
उभयस्यापि ब्राह्मणार्थत्वात्दुभयमनुष्ठेयमिति भावः । वीप्सा समाप्तिख्यापनार्था ॥१४६॥
टीका भट्टात्मजेनेयं द्वारकानाथयज्वना ।
तृतीयो व्याकृतोऽध्याय उपपत्तिसमन्वितः ॥
इति श्रीद्वारकानाथयज्वकृते बौधायनशुल्बसूत्रव्याख्याने
तृतीयोऽध्यायः समाप्तः ।
समाप्तञ्चेदं बौधायन शुल्बसूत्रम् ॥