बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 183, कुल 366 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
ऽध्यायः ] बौधायनीयं १५१
यथायोगमिति । भवत इति शेषः । यथा युज्यते तथा इष्टकानां ह्रासवृद्धी ।
अन्यथा वक्तुमशक्यत्वाद् एवमुक्तम् । महतः प्रस्तारस्य ऊर्ध्वप्रमाण एव विशेषः ।
इतरेषां प्रस्ताराणां यथापूर्वमेव ।
अत्र केचिद् वदन्ति इष्टकानां सम्पादयितुमशक्यत्वाद् इष्टकानां रूपेण मृदमेव
प्रक्षिपन्ति । तदपि युक्तमयुक्तमिति विचारणीयं सूरिभिः ॥ १२८ ॥
[ इति श्मशानचिदुपधानप्रकारः । ]
कूर्मचितं चिन्वीत यः कामयेत ब्रह्मलोकमभिजययेयमिति
विज्ञायते ॥ १२९ ॥
कूर्मचयनप्रतिपादकं शाखान्तरीयं ब्राह्मणमाह--कूर्मचित
मिति ॥१२९॥
कूर्मचितमिति । छन्दश्चिदध्याये तथैव कूर्मचिदिति ब्राह्मण इत्युक्तमिह विज्ञायत
इति शाखान्तरब्राह्मणं दर्शितम् । एतस्मादेव गम्यते स्वशाखायां ब्राह्मणा-
भावोऽन्य ब्राह्मण इत्युक्तं भवति । ब्रह्मलोकं हिरण्यगर्भलोकम् ॥ १२९ ॥
द्वयाः खलु कूर्मा भवन्ति वक्राङ्गाश्च परिसण्डलाश्च । अवि-
शेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति ॥ १३० ॥
द्वेधाः खल्विति । लोके वक्राकाराः कूर्माः संभवन्ति परिमण्डला-
काराः कूर्माश्च संभवन्तीति । अविशेषादिति । श्रुतावविशेषात् ते वयं
बोधायनाचार्याः कूर्मस्याकृतिरिति मन्यामहे ॥१३०॥
द्वया इति । वक्राङ्गानि कुटिलाङ्गानि येषां ते वक्राङ्गाः । एवं परिमण्डलाङ्गाः ।
अविशेषादिति । व्याख्यातमेतद् रथचक्रचितौ ॥ १३० ॥
अथाग्निं विमिमीते । चतुरस्र आत्मा भवति । तस्य दश-
प्रक्रमाः पार्श्वमानी भवति । तस्य द्वाभ्यां द्वाभ्यां प्रक्रमाभ्यां
सक्तीनामपच्छेदः । पूर्वस्मिन्ननीके प्रक्रमप्रमाणानि चत्वारि चतुर-
स्राणि कृत्वा तेषां येऽन्त्ये ते अक्षणयापच्छिन्द्यात् । एवं दक्षिणतः
एवं पश्चादेवमुत्तरतः । स आत्मा ॥ १३१ ॥
अथेति । अथाग्निमग्निक्षेत्रं विमिमीते । चतुरस्र इति । कूर्मस्य
चतुरश्रात्मा भवति । चतुरश्रश्चासावात्मा स चतुरश्रात्मा । आत्मा
समचतुरश्रो भवतीत्यर्थः । तस्येति । तस्यात्मनः दशप्रक्रमाः पार्श्वमानी