बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 180, कुल 366 में से
संदर्भ में पढ़ें१५० शुल्बसूत्रम् [ तृतीयो-
पञ्चदश वा प्रस्तार उपधायाऽवाञ्चं प्रत्यक्प्रवणं अक्ष्णया प्रागुपरितनदेश-
मारभ्य प्रत्यगधोदेशपर्यन्तमपच्छिन्द्यात् उद्धरेत् । अपच्छिन्नयोरुपरितनभाग-
मुद्धरेत् विसृजेत् ॥ १२७ ॥
तदेवाह—ऊर्ध्वेति । उच्छ्रायप्रमाणमग्नेः श्मशानचितः । ऊर्ध्वप्रमाणां रज्जुं
मीत्वा पञ्चधा संभज्य षष्ठं भागं प्रक्षिपेत् । श्मशानचितो द्विपाहस्रत्रिपाहस्रावपि
भवतः । यदि ग्रीवदघ्नमित्यादि ( बौ० श्रौ० सू० १७।३० पृः ३०९ ) दर्शनात् ।
साहस्र एकष्टकोच्छ्रायप्रमाणम् । द्विपाहस्र इष्टकाद्वयोच्छ्रायप्रमाणम् । त्रिपाहस्र
इष्टकात्रयोच्छ्रायप्रमाणम् । तत्सर्वमिति । प्रक्षिप्तेन सह त्रेधा संभुज्यैकभवशिष्य
शिष्टयोश्चतुर्थेन भागेनोर्ध्वप्रमाणभूतेन पञ्चमीं, नवमेन दशमीं, चतुर्दशेन पञ्चदशीञ्च
कारयेत् । वा शब्दश्च शब्दार्थे । उत्तरस्मिन्नपि वाक्ये तथा । ताभिरिति । ताभिश्चतुर्थेन
नवमेन चतुर्दशेनेत्युक्ताभिश्चतस्रः साहस्त्रे, नव द्विपाहस्रे, चतुर्दश त्रिपाहस्रे चितीः
प्रस्तारान् उपधाय शेषं तृतीयं भागमवाञ्चं पश्चात्प्रवणं अक्ष्णयापच्छिन्द्यात् । अर्धं
तस्य भागस्योद्धरेत् । एवं प्रक्षेप उद्धृतो भवति ।
तत्र प्रयोगः । इदमुपधानमार्गेण कचित् प्रस्तार्य पूर्वस्मिन् अन्ते ऊर्ध्वप्रमाणान्ते
स्पन्द्यां नियम्य प्रस्तारस्य पश्चिमान्त अधस्तात् स्पन्द्याया इतरान्तं स्पन्द्यायाः पार्श्वे
निधाय अनुस्पन्द्यं प्रस्तारं अक्ष्णया अपच्छिन्द्यात् । इष्टकानामेव लक्षणमुक्तम् ।
उच्छ्रायप्रमाणौ द्वौ दण्डौ प्रस्तारायामप्रमाणयोरधरोत्तरयोरूर्ध्वौ स्थापयित्वा पूर्वस्य
दण्डस्य शिरसि पाशं प्रतिमुच्य पश्चिमस्य दण्डस्य अपरमन्तं निधाय पश्चिमदण्डा-
भावेऽपि समायां भूम्यां प्रस्तारायामान्तं निधाय तेनेदृशं कृत्वा इष्टकारूपाणि वितर्क्य
कारयेत् । गणितनिपुणानामेतत् सुकरम् । इतरेषामशक्यमेव ॥ १२७ ॥
तस्य नित्यो विभागः । यथायोगमिष्टकानां ह्रासवृद्धी ॥ १२८ ॥
एवं कृतेऽपच्छेदे नित्यः यथायोगमिष्टकानां ह्रासवृद्धी !
अयमर्थः—प्राक् कृताभिरिष्टकाभिश्चतुरो नव चतुर्दश वा प्रस्तारा-
नुपधायाऽवशिष्टतृतीयभागपरिमितां तदुपरि निक्षिप्य प्राक् उपरितनदेश-
मारभ्य प्रत्यगधोदेशपर्यन्तं स्पन्द्यां नियम्य प्राक्प्रवणमक्ष्णयाऽपच्छिन्नं
भागमुपरितनमुद्धरेत् ।
प्रस्तारान्तरेष्टकापेक्षया पञ्चम-दश-पञ्चदशप्रस्तारेष्टकाकरणे विशेष-
माह—यथायोगमिति । यथायोगं यथासंभवमिष्टकानां ह्रासः, निम्नता
प्रत्यग्देशे, उच्छ्रयो वृद्धिः प्राग्देशे यथा भवति तथा कुर्यादित्यर्थः ॥ १२८ ॥