बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 162, कुल 366 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ्यान्तर दिया गया है:
१३२ शुल्बसूत्रम् [तृतीयो-
चतुर्थ्योर्मध्ये एका बृहती श्रोण्योर्द्वे । एवं त्सरौ नवेष्टकाः ।
आत्मनि त्रिंशच्छतमध्यर्धाः प्राच्यः न्यूनाः षड्विंशतिः । अर्धेटका-
भिरिति । आत्मनि पुरस्ताद्भागे मध्ये वा त्रयोदश बृहतीरुद्धृत्य
एकोनचत्वारिंशदर्थ्याः निधेयाः । अस्मिन् प्रस्तारे भेदपरिहारं दुःशकं
मत्वान्यथोपधानमाहुः । त्सरौ पूर्ववत् नवेष्टकाः । आत्मनि दक्षिणत उत्तर-
तश्च दश दश चतुर्थ्यः । अंसयोर्द्वे अध्यर्धे उदीची । आत्ममध्ये प्राच्यास्त्रयो-
दशरीतयस्तास्वेकैकस्यमादितो नव नवाध्यर्धाः प्रागायताः । तत
एकैकार्धेटका उदीची । तत एकैका षष्ठी । ततो द्वे द्वे अर्धेटके तिरश्च्यौ ।
एवं त्रयोदशेष्टकाः त्रयोदश रीतयः । एवं द्विशतः प्रस्तारः ।
अस्मिन् प्रस्तारे पञ्चदश षष्ठ्यः । चतुर्विंशतिशतमध्यर्धाः । एकोन-
चत्वारिंशदर्थ्याः । द्वाविंशतिः चतुर्थ्यः ।
अयमत्रसूत्रभंगिनोऽभिप्रायः—सूत्रानुसारेण प्रथमप्रस्तारे इष्ट-
कोपधानं कृत्वा वक्ष्यमाणसूत्रोक्तप्रकारेणेष्टकोपधाने सन्धिदर्शनात्
असि...त्प्रसंगेनान्यथैवोपधानमिति । अयन्तु सर्वथानुपन्रः । सूत्रोक्तोपधान-
पक्षे सत्यपि सन्धिदर्शने सूत्रकारवचनप्रामाण्येन तस्यादोषत्वात् । ननु
भेदान् वर्जयेत्, अधरोत्तरयोः पार्श्वसन्धानं भेदा ( २।९ ) इत्युपहितसन्धि-
पिधानस्यासिधर्मत्वेनोपन्यासात् कथं सन्धिदर्शनमदोष इति ? न, तदन्यन्तेषु
न विद्यते, न सक्तिपार्श्वयो(२।९)रित्यस्य उपलक्षणत्वेन चतुरश्रदोणचयन-
व्यतिरिक्तचयनविषयत्वेनापि भेदवर्जनवचनोपपत्तेः । यदि च सन्ध्यपिधान-
मभिहितं स्यात् तदापि सूत्रोक्तप्रकारेण प्रथमद्वितीयप्रस्तारयोः अन्यतरोप-
धानं कृत्वा तदनुरोधेन यथा सन्ध्यपिधानं भवति तथा एकप्रस्तारकल्पना-
मात्रेणापि तदुपपत्तौ प्रस्तारद्वयान्यथाकरणास्यात्यन्तायुक्तत्वात् ।
तस्मादेवं हि सूत्रार्थः । तथाहि तस्येष्टकाः कारयेत् , तस्य द्रोण-
स्येत्यर्थः । पुरुषस्य षष्ठ्यः सर्वतो विशत्यङ्गुलप्रमाणकाः समचतुरश्रा इष्टका
इत्यर्थः । ता एवैकतोध्यर्धाः, पूर्वोक्ता एवेष्टका एकेन पार्श्वेनार्धाधिकाः
त्रिंशदङ्गुलदीर्घा विशत्यङ्गुलपार्श्वाः । तासां, अध्यर्धानां चेत्यर्थः । पुरुषस्य