बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 157, कुल 366 में से
संदर्भ में पढ़ें[ऽध्यायः ] बौधायनीयं १२७
नाभेश्चतुर्थवेलायामिति इत्यवगम्यते । अयमर्थः—नाभौ मध्यप्रदेशे
अंशत्रयं निधाय अवशिष्टमेकं भागमरवेदिभ्यां संयोजयेत् । अत्रापि
पूर्ववदंशनिहितांशत्रयं संयोज्य चतुर्थांशयोर्मध्ये पूर्वोक्तन्यायेन मण्डलं
परिलिखेत् । नेमिमन्तरत इति । चतुर्थवेलायां परिकृषेदित्यनुषङ्गः ।
अयमर्थः—नेम्यामन्ततः प्रदेशे अंशत्रयं निधाय अन्तःप्रदेशे स्थितं
चतुर्थभागमरवेदिभ्यां संयोजयेत् । निहितांशत्रयं संयोज्य चतुर्थांशयोर्मध्ये
पूर्ववत्परिमण्डलं कर्त्तव्यम् । एवञ्च त्रीणि मण्डलानि भवन्ति । मध्य-
मण्डले पूर्वपेक्षया क्षेत्रमधिकं नाभिनेमिक्षेत्राभ्यां नाभिक्षेत्रान्नेमिक्षेत्रात्
किञ्चित्किञ्चित् क्षेत्रमरवेद्यर्थं मण्डलेन योजितत्वात् । नन्वेवं तर्हि पूर्वोक्त-
नाभ्यादिपरिमाणभङ्ग इति चेन्न, मध्यमण्डलान्तर्गतनेमिनाभिचतुर्थांशयो-
ररत्वे प्रमाणाभावात् । “अराणां पञ्चधा विभाग” (३।१०५) इति सूत्र-
कारेण नेमिनाभिचतुर्थांशसहितानामरत्वेन व्यवहार एव प्रमाणमिति चेन्न,
“आ परिकर्षणयो”रिति परिकर्षणद्वयसहितानामराणां पञ्चधाकरणवचनेन
परिकर्षणविधातिरिक्तस्यैवारत्वविभागो द्रष्टव्यः । नेमिमिति । नेमिं यथा
चतुःषष्टिभागा भवन्ति तथा व्यवलिखेदित्यर्थः ॥ १०४ ॥
अपरस्मिन् इति । उपधानमुच्यत इति शेषः । अन्तत अरसंयोगदेशे । चतुर्थ-
वेलायां मध्यादारभ्य बाह्यतो नाभिचतुर्थमवशिष्य परिलिखेत् । नेमिमन्तरत इति ।
अरसंयोगदेशे नेमिमभ्यन्तरतो नेमिप्रमाणचतुर्थभागेऽतीते परिकृषेत् । नेमिमन्तरत
इति । नेम्यन्तरं परिकर्षणबाह्यभागं चतुःषष्टि कृत्वेत्यादि । अत्र प्रथमप्रस्तारलेखानां
मध्येऽणु लेखास्तासामेकं करणम् ॥ १०४ ॥
अराणां पञ्चधा विभाग आ परिकर्षणयोः ॥ १०५ ॥
अराणामिति । अराणां नाभिकर्षणचतुर्थांशनेमिचतुर्थांशसहितानां
पञ्चधा विभागः कर्तव्यः । परिकर्षणशब्देन रेखया परिगृहीतनाभिनेम्यो-
श्चतुर्थांश उच्यते । आङ् अभिविधौ पञ्चम्यर्थे च (नेष्टा ?) तेन नाभिचतु-
र्थांशसहितानाम् अराणां पञ्चधा विभागः कर्त्तव्य इत्यर्थः ॥ १०५ ॥
अराणामिति । अराणां भेदपरिहारेण पञ्चधाविभागः । आ परिकर्ष-
णयोः । परिकर्षणशब्देन नेमिनाभ्युदरेषु प्रविष्टचतुर्थांशावुच्येते । नाभ्यामराणां