सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 143, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 143

ऽध्यायः ] बौधायनीयं ११३
तत्र चत्वारि करणानि । अरत्निरेकम् । तदर्ध्या अक्ष्णयाभिन्ना एकम् । पाद्या
उभयतोऽक्ष्णयाभिन्ना एकम् । पूर्वोक्ता अध्यर्धा एकम् ।
तत्र पञ्चम्यः षट्पञ्चाशच्चतुःशतम् । द्व्यधिकं शतद्वयं अर्ध्याः । षडधिकं
शतं पाद्याः । षट्त्रिंशदधिकं शतद्वयं अध्यर्धाः । चोडानाकसदः षडध्यर्धाः चतस्रः
पञ्चम्यः ।
प्रथमे प्रस्तारे शिरसोऽग्रे बहिर्द्वे अर्ध्ये । ततोऽरत्निचतुष्टयम् । आत्मनि
अर्धाष्टकं अपच्छेदेषु । मध्येऽष्टचत्वारिंशदरत्नयः ।
पुच्छपार्श्वयोः षडर्ध्याः । मध्ये द्वादशारत्नयः । पञ्चार्ध्या अङ्गुलानि ।
तत्र निर्णामाद् दक्षिणासु पञ्चसु पुरतस्तिस्रस्तिस्रोऽध्यर्धाः । पश्चाद् एकै-
कार्ध्या । चतुरिष्टकाः पञ्च रीतयः । निर्णामादुत्तराः सर्वाः पञ्चम्यः । पार्श्वेषु अर्ध्याः ।
एवं समेष्टकाः पञ्च रीतयः । तत्र निर्णामादुत्तरस्यां आदिभूतां अर्ध्यां तदनन्तरां
पञ्चमीं चोद्धृत्य अध्यर्धा निधेया । एवमुत्तरः पक्षः । पूर्वमेवोभयत्र निर्णामादौ
पाद्ये उक्ते ।
तत्र आत्मनि षट्पञ्चाशत् । शिरसि षट् । पुच्छेऽष्टादश । पक्षयोर्विंशति-
शतम् ।
अस्मिन् प्रस्तारे द्वादशशतं पञ्चम्यः । चतुःपञ्चाशदर्थ्याः । द्वे पाद्ये ।
द्वात्रिंशदध्यर्धाः ।
अथ अपरः प्रस्तारः । शिरसोऽग्रे प्राची पाद्या । पश्चादध्यर्धाद्वयम् । पार्श्व-
योश्चतस्रश्चतस्रः पाद्याः । तासां पश्चाद् बहिर्द्वे अर्ध्ये । एवं त्रयोदश । ततः पश्चाद्
अध्यर्धाभ्यां पार्श्वयोरुक्तं अध्यर्धाद्वयम् ।
तत्पश्चात् पञ्चमीरीतयः सप्त पञ्चेष्टकाः । ततः पश्चात् पूर्ववद् अध्यर्धा-
द्वयम् । पार्श्वयोरर्ध्ये । पुच्छात्मसन्धौ मध्ये पञ्चमी । उभयत्र अर्ध्ये ।
सन्धिरितीशेषे पुच्छक्षेत्रे द्वे प्रागग्रे पाद्ये । एवं पञ्चेष्टका रीतिः । ततः पश्चात्
पूर्ववद् अध्यर्धाद्वयंमध्ये च । ततोऽध्यर्धाश्चतस्र एका रीतिः । ततः पुच्छाग्रे पञ्चदश
पाद्याः । एवं आत्मशिरःपुच्छेषु चतुरशीतिः ।
निर्णामाग्रे एका पाद्या । ततः पश्चादरत्निचतुष्टयम् । ततः प्रत्यङ्मुखी
अध्यर्धा । एवं षडिष्टका रीतिः । निर्णामादुत्तरतः पञ्च रीतय अध्यर्धाः चतुरिष्टकाः
प्राच्यः । तत्र आत्मसन्धिरोत्यां पुरस्ताद् अन्यतरत्र पाद्या । निर्णामाद् दक्षिणतश्चतु-
रिष्टकाश्चतस्रः प्राच्यः । तासु मध्ये द्वे द्वे पञ्चम्यौ । आद्यन्तयोर्द्वे द्वे अध्यर्धे ।
अथ पादेष्टके अर्धैष्टका (३।४४) मित्यादि पूर्ववत् पक्षेषु । एवमुत्तरः पक्षः ।
आत्मनि षट्चत्वारिंशत् । त्रयोदश शिरसि । पुच्छे पञ्चविंशतिः । एवं
चतुरशीतिः । पक्षयोः षोडशशतम् ।
अस्मिन् प्रस्तारे षष्टिः पञ्चम्यः । विंशतिरर्ध्याः । पञ्चाशत् पाद्याः । सप्तति-
रध्यर्धाः ।
१५