बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 132, कुल 366 में से
संदर्भ में पढ़ें१०२ शुल्बसूत्रम् [तृतीयो-
आकृतिः शिरसो नित्या ॥ ५६ ॥
आकृतिरिति। पूर्वोक्तस्य द्व्यरत्निव्यास-सपादद्व्यरत्निदीर्घ-चतुरश्रस्य
अंससक्ती आरभ्य प्रत्यक् प्रत्येकमरत्निमात्रं मित्वा शङ्कुद्वयं निहत्य प्राक्-
पार्श्वमध्यप्रदेशे एकं शङ्कुं निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिः-
स्पन्द्यमपच्छिन्द्यात् । एवञ्च सति सार्धास्तिस्रः पञ्चम्यः शेरते ॥ ५६ ॥
आकृतिरिति । तस्यांसौ प्रक्रमेण ( ३।३४ ) इत्यनेन प्रकारेणोक्तेत्यर्थः । इह
अरत्निनेति विशेषः ॥ ५६ ॥
अथेष्टकानां विकाराः ॥ ५७ ॥
अथेति ॥ ५७ ।
अथशब्दः संबन्धार्थः । एतस्येत्यर्थः ॥ ५७ ॥
पुरुषस्य पञ्चम्यः। ता एवैकतोऽध्यर्धाः। ता एवैकतः
सपादाः। पञ्चमभागीयायाः सार्ध्याः पाद्याः। तथाध्यर्धायाः।
तयोश्चाष्टमभागौ तथा श्लेषयेद् यथा तिस्रः स्रक्तयो भवन्ति।
पञ्चमभागीयायाश्चाष्टम्यः। तानि दश ॥ ५८ ॥
पुरुषस्येति । पञ्चमभागीया इष्टकाः सर्वतोऽरत्निप्रमाणा इत्यर्थः ।
ता एवैकत इति । ता एवैकतोध्यर्धा एकेन पार्श्वेनार्धारत्निप्रमाणयुक्ताः
षट्त्रिंशदङ्गुलप्रमाणदैर्घ्याः अरत्निप्रमाणव्यासा इति यावत् । एवं सपादाः ।
पञ्चमेति । पञ्चमभागीया या इष्टकाः पञ्चमीमक्षणया भिन्द्यादिति
(३।३०) अक्षण्यापच्छेदेन कृता अध्यर्द्धाः पाद्याश्च । तथेति । एवमध्यर्द्धा-
याश्चार्ध्याः पाद्याश्च । तयोरिति । उभयोः ( पञ्चम्यर्थं पञ्चम्यर्थं-
पञ्चम्योः) अध्यर्धपञ्चम्योः । अष्टमभागौ तयोः पादयोः अक्षण्या अर्धशः
कृतौ इत्यर्थः । यथा तिस्रः स्रक्तयो भवन्ति तथा पूर्वोक्तौ संयोजयेत् । अस्या
उभयीति संज्ञा । उभयावयवनिर्मितत्वात् । पञ्चमभागीयाया इति ।
तानीति । पूर्वोक्तानि करणानि दश इत्यर्थः । यद्यपि नवैव करणानि
प्रागुक्तानि तथापि अध्यर्धायाः पाद्यानां करणद्वयसम्भवात्तदभिप्रायेण
दशेत्युक्तम् ॥ ५८ ॥